SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे परिग्रहाऽष्टकम् २६९ नन्वेवं साधूनां पुद्गलात्मक धर्मोपकरणपरिग्रहः कथमिति शिष्यशङ्कां समादधदाह चिन्मात्रदीपको गच्छेन्निर्वातस्थानसन्निभैः । निष्परिग्रहवास्थैर्यं धर्मोपकरणैरपि ॥ ७ ॥ चिन्मात्रेत्यादि । चिन्मात्रदीपकः - चिज्ज्ञानमेव चिन्मात्रं ज्ञानात्मकाऽऽत्ममात्रलीन आत्मेत्यर्थः । अप्रमत्तो मुनिरिति यावत् । स एव शुद्धज्ञानात्मकप्रकाशात्मकत्वाद्दीपक इव स तादृशः, निर्वातस्थानसन्निभैः-निर्वातं निर्गतो वातो वायुसञ्चवारो यतस्तादृशं सञ्चरिष्णुवायुरहितं यत्थानमन्तर्गृहादिरूपं तत्सन्निभैस्तत्सदृशैः, धर्मोपकरणैः- धर्मः श्रेयः साधनात्मको विधिरुपक्रियत एभिर्मुखवत्रिकारजोहरणवस्त्रपात्रादिभिरिति तानि धर्मोपकरणानि तैः तानि हि धर्मान्तरायभूतप्राणिविराधनादितो रक्षणे साधनानीति बोध्यम् । अपिरेवार्थे । निष्परिग्रहता स्थैर्यम् - परिमहादुक्तप्रकारान्निर्गतो रहितो निष्परिग्रहस्तस्य भावस्तता, परिग्रहरहिततेत्यर्थः । तदात्मकं स्थैर्यं निष्कम्पत्वं निरीहवृत्तिकत्वं च गच्छेत् प्राप्नुयात् । यथा दीपको निर्वातस्थान एवं स्थिरशिखोभवति, तथा ज्ञान्यपि धर्मोपकरणैरेव दृढनिष्परिगहो भवति । अन्यथा हि स्थित्याहारादिष्ववश्यम्भाविप्राणिविराधनाद्यनिवारणात्प्रकारान्तरेण तन्निवारणे च निष्परिग्रहताया विक्षोभसम्भवात् । परिप्रहमिया धर्मोपकरणत्यागेSशनपानादित्यागोऽपि किं नेष्यते ? । एवञ्च धर्मसाधनत्वाच्छरीरं रक्षणीयमिति निराहार भावनायाः पोषकत्वाच्च मिताहारादिकमिष्यते । तथा प्राणिविराधनादिना धर्महानिर्माभूदिति धर्मोपकर
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy