SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६८ भद्रङ्करोदयाख्यव्याख्याविभूषिते त्यक्तपुत्र कलत्रम्य मृ मुक्तस्य योगिनः। चिन्मात्र प्रतिबद्धस्य का पुद्गलनियन्त्रणा ? ॥ ६ ॥ त्यक्तपुत्रेत्यादि । त्यक्तपुत्र कलत्रस्य-त्यक्ता वर्जिताः पुत्राः कलत्राण्यङ्गनाः, उपलक्षणत्वादागारपरिजनपरिच्छदधनधान्याद. यश्च येन स तस्य तादृशस्य, बहिः परिग्रहरहितस्येत्यर्थः । तथा, मूर्खामुक्तस्य-मूच्छी दारादिषु मोहस्तेन मुक्तस्य रहितस्य, आन्तरपरिग्रहरहितस्येत्थर्यः । त्यक्त पकलपरिग्रहत्येति समुदि. तार्थः । अत एव, चिन्मात्र प्रतिबद्धस्य-चिज्ज्ञानमेव चिन्मानं तत्र प्रतिबद्धस्य मग्नस्य, ज्ञानमग्नस्येत्यर्थः । ज्ञानात्मके आत्मनि लीनस्येति यावत् । एतच्च वस्तुस्थितिकथनमेव, परिग्रहाऽभावे आत्मनोऽन्यस्य प्रतिवन्धविषयस्याऽभावात् । एतेन परिग्रहत्यागे हेतुरप्युक्तः। यो हि चिन्मात्रपतिबद्धो भवति, तस्यैव सर्वपरिप्रहत्यागः शक्य इति बोध्यम् । तादृशस्य, योगिन:-श्रेयःसाधन. कनिष्ठता योगस्तद्वतः साधोः, पुद्गलनियन्त्रणा-पुद्गलैस्तदात्मकै र्दारादिभिः कृता नियन्त्रणा पुद्गलेषु स्वस्य च नियन्त्रणाऽऽसक्त्यात्मकं वन्धनम् , का-कीदृशो ? । काक्या नोचिता न वा सम्भवतीत्यर्थः । एकदा परिग्रहत्यागपूर्वकज्ञानमग्नतायां साधितायां न पुनः परिग्रहसम्भवः, तद्धेतोरज्ञानस्याऽभावात् । यथा हि नितेपे. दर्पणे न प्रतिविम्बसम्भवस्तद्वत् । यदुक्तम्-" विषया विनिवर्तन्ते निराहारस्य देहिनः । रसबर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तत" इति, “ आमवन्तं न कर्माणि निबध्नन्ति धनञ्जय" इति चेति भावः ॥ ६ ॥
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy