________________
झानसारे परिग्रहाऽष्टकम्
२६७
दारागारादिश्च, तस्मिन् , त्यक्ते-परित्यक्ते, रागादिषु जितेषु दारागारादिषु वर्जितेषु च सरिस्वत्यर्थः । साधो:-मुमुक्षोः, सकलम्सर्वमेव, न तु कियदेव, रजा-रजोधूलिस्तद्वन्मलिनीकरणादात्मनः कायवाङ्मनसां सावद्यो योगः कर्मपुद्गलाश्च रजः, प्रयातिप्रकर्षेण यथा न पुनर्बन्धो भवति तथा याति व्यपैति । परिग्रहाभावे हि निःस्पृहस्य कारणाऽभावान कर्मणो बन्धः, बद्धश्चाऽपि कर्मराशिस्तीव्रचारित्रपरिणामाज्झटित्येव निर्जीर्यतीति भावः । एतेन परिग्रहस्य सर्वदोषाकरत्वमुक्तम् । दृष्टान्तमाह-पालीत्यादि । यथायद्वत् , पालित्यागे-पालिः सरसः परितः सेतुबन्धस्तत्त्यागेऽये सति, पालिभङ्गे इत्यर्थः । सरस:-सरोवरात् , क्षणादेव-अल्पकालेनैव, सलिलम्-सरोवरजलम, प्रयातीति सम्बध्यते । पालि हिं सरसो जलनिर्गमनप्रतिबन्धको जलस्थितिहेतुश्चेति तद्भङ्गे जलज्य सरसो झटिस्येव निर्गमन मिति प्रतीतम् । तथा परिग्रहो दोषव्यपगमपरिपन्थी दोषस्थितिसाधनं चेति तत्त्यागे सर्वदोषनाश इत्येकेन परिग्रहत्यागेनैव सक्लेष्टसिद्धिरिति परिग्रहत्यागस्योक्तो. ऽर्थवादो नाऽसमञ्जस इति परिग्रह त्याग एव सर्वगुण मूलमिति सोऽवश्यं साधनीयो मुमुक्षुणेति भावः ॥ ५ ॥
ननु यथा स्वयमव्यापारेऽपि पदार्थे रज उड्डीय संश्लेषमेति, तथा निष्परिग्रहस्याऽपि दारादिभिः परिग्रहैः संश्लेषः संम्भाव्यत एवेति न दोषप्रमोषसम्भवः परिग्रहत्यागेऽपीति शिष्याशङ्कां समाघित्सुराह