________________
२६६
भद्रङ्करोदयाख्यव्याख्या विभूषिते
99
च्यापृते सतीति यावत् । बहिर्निर्ग्रन्थता - बहिर्दारागारादिविषयिणी या निर्मन्थता निष्परिग्रहता, बहिः परिग्रहत्यागमात्रमिति समुदितनिष्कर्षः । वृथा - निष्फला, परिग्रहत्यागफलस्य मनः शुद्धेरध्यात्मगुणवृद्धेश्वाऽलाभादिति बोध्यम् । यदुक्तम्- " परिप्रप्रहावेशादि”त्यादिनाऽत्राऽनुपदमेव । अन्यत्रापि चोक्तम् - " कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यत इति । तत्र वैधर्म्येण दृष्टान्तमाह-त्यागादित्यादि । हि-यतः, भुजग:-भुजं कुटिलं गच्छतीति स सर्पः, कञ्चुकमात्रस्य - कञ्चुको निर्मोकः स एव कञ्चुकमात्रं तस्य, केवलस्य कञ्चुकस्य विषवर्जस्येत्यर्थः । " समौ कञ्चुक निर्मो का वि"त्यमरः । त्यागात्-मोचनाद्धेतोः, निर्विषः- विषान्निर्गतः, विषरहित इत्यर्थः । न-नैव यथा कञ्चुकत्यागेऽपि विषस्याऽत्यागात्सर्पोऽनर्थाय तथा बहिःपरिग्रहत्यागेऽप्यान्तरस्य तस्याऽत्यागान्नशुभगुणलाभ इति विषव देवाऽऽन्तरः परिग्रहो भयङ्कर इति सोऽवश्य हेयः श्रेयोर्थिना, अन्यथा परमार्थाऽसम्प्रानर्थापाताच्चेति भावः ॥ ४ ॥
"
❤
ननुपरित्यागस्योक्तोऽर्थवादोऽमनोज्ञः, दोषान्तरसत्त्वे पूजालाभात् । एवञ्चैकःपरिग्रहत्यागोऽकिञ्चित्कर एवेति शिष्याऽश्रद्धां निराकरिष्णुराह
त्यक्ते परिग्रहे साधोः प्रयाति सकलं रजः । पालित्यागे क्षणादेव सरसः सलिलं यथा ।। ५ ॥
त्यक्त इत्यादि । परिग्रह - परिगृह्णाति परिगृह्य स्थापयति भवे, ततो निर्गन्तुं न ददातीति स परिग्रह आन्तरो रागादि बो