________________
ज्ञानसारे परिग्रहाऽष्टकम्
२६५
बाह्यः परिग्रहो निःपारो निरुपयोगी चेत्युपेक्ष्य इत्याशयः। अत्र यद्यपि यथा यथा रागादिनिग्रहम्तथा तथा बाह्यपरिग्रहविरह इति पूर्व रागादित्यागः पश्चाद्वाह्य परिग्रहत्याग इत्यसमञ्जसम् । तथापि "चलन् चलित" इति न्यायेन क्रमशः पौर्वापर्यस्य साधनकाले सत्त्वाचा. ऽवयवधर्मस्य समुदाये उपचार इति बोध्यम् । य इति किमित्याहतत्पदाम्भोजम्-तम्य निष्परिग्रहस्य साधोः पदश्चरणोऽम्भोज कमलमिव तत् , जगत्रयी-जगतां लोकानां त्रयी, लोकत्रयस्थप्राणिसङ्घ इत्यर्थः । पर्युपाम्ते-परि सर्वथा भक्त्योपास्ते सेवते, दुम्त्यजत्यागेन तं महासत्त्वं सर्वाधिकं मत्वा तद्गुणाकृष्टो बहु मन्यते, गुणानां पूजास्थानत्वात् । विडम्बित जगत्रयम्य जेतुर्जगत्रयीकृतपदपर्युपासना विजेतुनुपम्य वशीकृतनृाधीननृपकृतपर्युपासनावदुचितैवेति बोध्यम् । तथा च जगत्रयीपर्युपास्यत्वात्मकसुदुर्लभगुणसाधनस्वादवश्यं परिग्रहत्यागः सर्वयत्नेन साधनीय इति हृदयम् ।। ३ ।।
बाह्यपरिग्रहत्यागमात्रेण न कृतकृत्यतेति शिष्यं रहस्यमुपदिशन्नाह
चित्तेऽन्तग्रन्थगहने बहिनिर्ग्रन्थता वृथा । त्यागात्कञ्चुकमात्रस्य भुजगो न हि निर्विषः ॥४॥
चित्ते इत्यादि । चित्ते-मनसि, अन्तर्ग्रन्थगहने-अन्तर्मनसस्तत्स्थत्वात्तत्सम्बन्धी यो ग्रन्थो वाह्यपरिग्रहपयोजकत्वात्कारणे कार्योपचारात्परिग्रहस्तेन गहने निरन्तरत्वाद्दुरवगाहे सति, निरन्तरमन्तः परिप है रागादिभि भृते सतीत्यर्थः । बहिः परिमहचिन्ता