________________
२६४
भद्र ङ्करोदयाख्यव्याख्याविभूषिते
य इत्यादि । य:-यादृशो महासत्त्वो जनः, बाह्यम्-बहि. र्भवम् , आत्मधर्मभिन्नं पौद्गलि कमित्यर्थः । परिग्रहम् -मुखबुद्धया सममत्वं सङ्ग्राह्यं दारागारादिकं परिग्रहपदवाच्यत्वेन प्रसिद्धम् । तृणवत्-तृणमिव, तृणं यथा त्यजति तथेत्यर्थः । निःसारत्वादनुपयोगित्वाच्च । यथा तृणं निःसारमनुपयोगि चेति तन्न परिगृह्यते, तथा दारागारादिकमनित्यत्वान्निःसारमभीष्ट श्रेयःपरिपन्थित्वान्निरुपयोगि चेति तन्न धीमतां परिग्राह्यमित्यतः, त्यक्त्वा विहाय, ततो विरज्येत्यर्थः । आन्नरम्-बाह्य भिन्नत्व' हेरिन्द्रियाऽविषयत्वादन्ततमित्र तत् , मनोमात्रविषयमित्यर्थः । चेन परिग्रहमिति सम्बध्यते। अवश्यं परिग्रहजनकत्वात्कारणे कार्योपचाराद्रागादिरूपं परिग्रह. मित्यर्थः । उदास्ते-उपेक्षते, त्यजतीत्यर्थः । न केवलं बाह्यपरिग्रहत्यागेन कृतकृत्यता, किन्तु तत्पूर्वकमान्तरपरिग्रहत्यागेन । यद्वक्ष्यति " चित्तेऽन्तर्ग्रन्थगहने बहिनिम्रन्थता वृथे "ति भावः । यद्वा, चः समुच्चये । तथा च बाह्यमान्तरं च परिमहं त्यक्त्वेत्यन्वयो बोध्यः। अत्र पक्षे च 'तृणवदि 'ति ‘बाह्यमि 'त्यस्योपमानं बोध्यम् । ' उदास्ते' इत्यस्य च मध्यस्थभावेन तिष्ठतीत्यर्थः । एतच्च वस्तुस्थितिवर्णनमानं न तु विधिः। परिग्रहत्य गे मध्यस्थताया एव भावादिति बोध्यम् । अथवा चः प्राथम्ये । तथा चाऽऽदावान्तरं परिग्रहं त्यक्त्वा बाह्यं तृगबदुदास्ते इत्यन्वयः । यस्य हि नान्तरः परिग्रहस्तस्य बाह्यः स तृणवदेव । रागादिमत एव बाह्यपरिग्रहम्याऽर्थक्रियाकारित्वासारवत्त्वाच । एवञ्च यथा रागादिमतोऽपि तृणं निःसारत्वादनुपयोगित्वाच्चापेक्ष्यं तथा रागादिरहितस्य