________________
ज्ञानसारे परिग्रहाऽष्टकम्
२६३
स्तस्माद्धेतोरित्यर्थः । अथ च परिग्रह एव प्रलापादिदुर्दशाप्रयोजकत्वाद् ग्रहो ज्योतिःशास्त्रप्रसिद्धः कुजाघशुभग्रहश्चाऽऽवेशोऽपस्मारश्च ताविव स, तस्मादित्यर्थः । “ आवेशाऽऽटोपौ संरम्भे" इति, " अपस्मारः स्यादावेश" इत्युभयत्राऽपि हैमः । दुर्भाषितरजःकिराम्-दुर्दुष्टान्युत्सूत्राण्यसभ्यानि च भाषितानि वचनान्येव लोकानां गाद्यात्मकमलनिमित्तत्वाद्रजांसि धूलीः किरन्युड्डाययन्ति निरर्गलं सर्वतो भाषन्त इति ते तादृशास्तेषाम् । दुर्वचनात्मकधूलीप्रक्षेपकृतो. द्यमानान् , लिङ्गिनाम्-लिङ्गं चिह्नम् , प्रसिद्धया मुमुक्षुलिङ्गं मुनिवेषस्तदस्त्येषामिति ते तादृशाः, मुनिवेषधरास्तेषाम् , अपिना लिङ्गिनां दुर्भाषणाद्यनर्हत्वं यत्र लिङ्गिनामियं दशा तत्राऽन्येषां तु कथैव केति च सूच्यते । विकृता:-अननुरूपा विरसाश्च, प्रलापा:अनर्थकाचांसि, “प्रलापोऽनर्थकं वच" इत्यमरः । किमिति क्षेपे, न श्रूयन्ते-न कर्णगोचरा भवन्ति, अपि तु श्रूयन्त एवेत्या. शयः। अपस्मारवशाद् ग्रहवशाच्च जना विरसं प्रलपन्ति, हस्तपादादिक्षेपेणोन्मत्ततया च रजांसि च क्षिपन्ति, तथा परिग्रही लिङ्गयपि परिग्रहार्थ रागादिवशादुत्सूत्रमसभ्यं च भाषते स्पर्धादिना विरसं प्रलपति चेति नाऽविदितम् । तस्मात्परिग्रहग्रहो विडम्बितजगत्रयो. ऽवश्यहेय इत्याशयः ॥ २॥ ___ तदेवं परिग्रह विजृम्भितमुपवर्ण्य तत्त्यागे शिष्यस्य रुचिर्यथा स्यादिति तदर्थवादमाह
यस्त्यत्वा तृणवद्वाह्यमान्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोज पर्युपास्ते जगत्रयी ॥ ३ ॥