________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
ज्योतिर्विदः । अयं तु सर्वदा वक्रतामेवाऽऽश्रयति । परिग्रहिणो हि विविधमायां परिमहार्थं प्रयुञ्जन्तोऽतिप्रतीता इत्युपचारात्परिग्रहस्यैव सा वक्रता, अत एव चाऽयं सर्वदाऽप्यशुभ एवेति भावः । एषोऽप्यस्य ग्रहान्तरवैलक्षण्ये हेतुः । एतेन परिग्रहस्याऽवश्य देयत्वं ध्वनितम्। श्रेयोऽर्थिनो मायायास्तद्धेतोश्वाऽवश्य हेयत्वादिति बोध्यम् । नन्वयमीदृशो यस्याऽस्ति तस्याऽस्तु, न तेन मम काऽपि हानिरिति चेत्तत्राह-विडम्बितजगत्रयः - विडम्बितं स्वप्रयुक्तयाऽशुभदशयाऽभिभूतं जगतां लोकानां त्र्यं सर्वो लोको येन स तादृशः । अशु. भानुबन्धित्वेन सर्वप्राणिपीडकः सर्वप्राणिगतश्चेत्यर्थः । सूर्यादयो महास्तु कस्यचिदनुकूलाः कस्यचिच्च प्रतिकूला राश्यादिवशात् । अयं तु सर्वजगतां बिडम्बक एवेति महानशुभो बलवांश्चेति दुर्निर्ग्राह्यः, अतश्च दुस्त्यजोऽपीति सर्वप्रयासेनाऽसौ त्याज्य एवेति हृदयम् । रूपकाऽतिशयोक्तिश्लेषाऽनुप्राणितो व्यतिरेकालङ्कार ॥१॥
२६२
ननु विडम्बितजगत्रय इत्यमनोज्ञम् । मुनीनां परिग्रहस्य सद्भावेऽपि न तदभिभवसम्भवः सम्यग्ज्ञानबलादिति शिष्यव्यामोहव्यपोह मनसाऽऽह -
परिग्रहग्रहाऽऽवेशादुर्भाषितरजः किराम् ।
श्रूयते विकृताः किं न प्रलापा लिङ्गिनामपि ॥ २ ॥
परिग्रहेत्यादि । परिग्रहग्रहाऽऽवेशात् - परिग्रहात्मकस्य ग्रहस्य तन्निमित्तत्वात्तत्सम्बन्धी य आवेशः संरम्भस्तद्धेतोः, यद्वा परिग्रहस्य ग्रहः स्वीकार एव प्रलापादिहेतुत्वादा वेशोऽपस्मारराख्यो रोगविशेष