SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ -ज्ञानसारे परिग्रहाऽष्टकम् न परावर्त्तते राशे वक्रतां जातु नोज्झति । परिग्रहग्रहः कोऽयं विडम्बितजगत्रयः ॥ १ ॥ न परावर्तत इत्यादि । परिग्रहग्रहः - परि समन्ताद् गृह्यते सञ्चीयतेऽपाविति, परिगृह्णाति गृहीत्वाऽवतिष्ठते भवादुत्तरणं प्रतिनातीति वा स तादृशः परिग्रहो ममत्वविषयो दारागारादिः, यः सुखेच्छया सञ्चीयते तादृशसञ्चयहेतू रागादिश्व । आयो बाह्योऽन्त्य आभ्यन्तरः । स एव विवित्राऽशुभात्मकदशाप्रयोजकत्वाद् ग्रहस्तदारूयः सूर्यादिग्रहः । सूर्यादयो ग्रहाः लोकानां शुभाशुभनिमित्तमिति ज्योतिर्विदः । अयम्- सर्ववाणि लभ्यमानत्वादतिप्रतीतः कःकीदृश इति प्रश्नकाकुः । ननु यथाऽन्ये ग्रहास्तथाऽयमपीतिचेन्न । कुत इति चेत्तत्राह - नेत्यादिना । अयं परिग्रहमहः, राशेः- सूर्यादिप्रहाधिकरणत्वेनाभ्युपगतो नक्षत्रपुञ्जविशेषो मेषवृषादिपदवाच्य त्वेन ज्योतिःशास्त्रप्रसिद्धराशिः, स इव परिग्रहवान् जीवः परिग्रहस्य राशिः, तस्मात् जातु कदाचिदपि, न-नैव, परावर्त्तते राज्यन्तरं गच्छति, अधिष्ठितं राशि न त्यजतीत्यर्थः । सूर्यादयो ग्रहा हि राशेः परावर्त्तन्ते, अयं त्वनादिकालाचद्राशिस्थ एवेत्ययं महान्तरविलक्षणः । एतेनाऽस्य दुष्परिहरत्वं ध्वनितम् । कथमन्यथा न परावृत्तिरिति बोध्यम् । ननु यदि शुभस्तदा सुखं तिष्ठतु स्वराशावेवेति चेतत्राह - वक्रताम् - ग्रहप - वक्रता ऋजुमार्ग विहाय कुटिलगतिः, परिग्रहपक्षे च कौटिल्यम्, परिप्रहार्थ मायिता, ताम् । जाविति सम्बध्यते । न-नैव, उज्झति-त्यजति । सूर्यादयो ग्रहा वक्रतामिता अपि पुनर्मार्गिणो भवन्तीति शुभप्रदा अपोति च " 9 २६१ -
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy