SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्या विभूषिते यथाशास्त्रं वक्तेत्यर्थः । न चोपदेशमात्रेण कृतकृत्यतेत्यत आहशाखोक्ताचारकर्त्ता - शास्त्रे उक्तलक्षणे उक्ताः प्रतिपादिता ये आचारा आवश्यकादिकाः क्रियास्तस्य कर्त्ताऽनुष्ठाता, च- समुच्चये । तथा च यथाशास्त्र दर्शनज्ञानवचन क्रियास्वेक इति निष्कर्ष: । यदुक्तम्- “ शास्त्राण्यधीत्याऽपि भवन्ति मूर्खा यस्तु क्रियावान् पुरुषः स विद्वानि "ति, " मनस्येकं वचस्येकं कर्मण्येकं महात्मनामि "ति च। महायोगी - महान् शास्त्रज्ञत्वादिगुणवैशिष्ट्यादितराऽधिकश्वाsat योगी मोक्षोपायप्रवृत्तश्च स तादृशो महामुनिः परमम्सर्वोत्कृष्टत्वान्नित्यत्वाच्च पारमार्थिकम् पदम् - स्थानम् सिद्धशिलारूपमित्यर्थः । प्राप्नोति गच्छति, मुच्यत इति निष्कर्षः । शास्त्रज्ञानादिगुणविशिष्ट एव महायोगी, स एव च मुच्यते । तस्माच्छास्त्रमवश्यमुपादेयं श्रेयोऽर्थिभिरिति तात्पर्यम् ॥ ८ ॥ २६० " इति ज्ञानसारे प्रख्यातव्याख्यातृ - कविरत्नपन्यासप्रवर- श्रीयशोभद्रविजयगणिवर शिष्यपन्यास प्रवर श्री शुभङ्कर विजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां शास्त्रदृष्टयष्टकं नाम चतुर्विंशतितमाऽष्टकम् ॥ २४ ॥ ॥ परिग्रहाऽष्टकम् ॥ शास्त्रोक्ताऽऽचारकर्तृत्वादिगुणसद्भावेऽपि परिग्रहत्यागं विना न श्रेयः प्राप्तिरिति शिष्यप्रबोधाय परिग्रहाऽष्टकं विवक्षुरादौ परिप्रहस्य दुर्निग्रहत्वमाह
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy