________________
ज्ञानसारे शास्त्रदृष्टयऽष्टकम्
२५९
हितमि "ति भावः । आहुः-कीर्तयन्ति । अत्र महर्षय इत्युक्त्या शास्त्रार्थवादे श्रद्धादाढयसामग्रीसाकल्यं सम्पादितम् , महयुक्ती शङ्कानवकाशादिति बोध्यम् । तथाचाऽत्र शास्त्रमज्ञाननाशकं स्वैर. प्रवृतिप्रतिरोधि धर्मस्याऽसाधारणं निमितं चेति प्रतिपादितम् । शास्त्रोपेशणे चाऽज्ञानवृद्धिः स्वाच्छन्द्यतीव्रता धर्महानिश्चेति शास्त्रमवश्यमाश्रयणीयमिति हृदयम् । परम्परितरूपकाऽलङ्कारः ॥ ७ ॥
अथ शिष्यस्य श्रद्धादाथि शास्त्रं फलमुखेन स्तुबन्नुपसंहरतिशास्त्रोक्ताचारकर्ता च शास्त्रज्ञः शास्त्रदेशकः। शास्त्रकदृङ्महायोगी प्राप्नोति परमं पदम् ॥८॥
इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे शास्त्रदृष्टयष्टकं नाम चतुर्विशतितमाष्टकम् ॥ २४ ॥
शास्त्रोक्तेत्यादि । शास्त्रज्ञः-शास्त्र मुक्तलक्षणं जिनवचनं जानात्यधिगमादिना वेत्तीति सः, अधीतशास्त्र इति यावत् । शाखं जानानोऽप्यन्यथा वस्तु प्रतिपद्यते पूर्वग्रहादिवशादित्यत आहशास्त्रकदृग्-शस्त्र मुक्तलक्षणमेवैकाऽद्वितीया दृग् नेत्रमिव वस्तु. परिच्छेदसाधनत्वान्नेत्रं यस्य सः, शाम्रपतिपादितार्थश्रद्धालुः, सम्यग्दृष्टिरिति यावत् । यद्वा शास्त्रेण एका तुल्या दृग् ज्ञानं वस्तुपरिच्छेदात्मकं यस्य सः, यथाशास्त्रं वस्तुपरिच्छेत्ता, सम्यग्ज्ञानवानित्यर्थः । स्वयं शास्त्रोक्तं श्रद्दधानः शास्त्रानुसारेण वस्तु परिच्छिन्दन्नपि च कश्चित्परेभ्यो द्वेषादिनाऽन्यथा प्रतिपादयेदित्यत आहशास्त्र देशकः-शास्त्रस्य लक्षगया शास्त्रे पतिपादितस्य देशक उपदेष्टा,