________________
भद्रकरोदयाख्यव्याख्याविभूषिते
सम्प्रति शिष्यस्य रुचि यथा स्यादिति शास्त्रार्थवादमाह - अज्ञानाऽहिमहामन्त्रं स्वाच्छन्द्यज्वरलङ्घनम् । धर्मारामसुधाकुल्यां शास्त्रमाहुर्महर्षयः ॥ ७ ॥
अशा नेत्यादि । महर्षयः -- महान्तश्व ते ऋायश्व ते, शास्त्रतवज्ञा मुनयः, शास्त्रम्-उक्तलक्षणं जिनवचनात्मक मागमम्, अज्ञानाहिमहामन्त्रम् - अज्ञानं मिथ्याज्ञानं तदेव भवपरम्पराद्यात्मकतीव्रीडाप्रदत्वादहिः सर्पस्तस्य तद्दननाधिकृतत्वात्तत्सम्बन्धी यो महाप्रतिहतप्रभावो मन्त्रो देवाधिष्ठिताऽक्षरसमूहस्तद्रूपम् । यथा गारुडादिमन्त्रेण सर्पदमनं तथा शास्त्रेणाऽज्ञानदमनमिति भावः । स्वाच्छन्द्यज्वरलङ्घनम् - स्वाच्छन्द्यं स्वैराचारस्तदेवाऽऽत्मवीर्याSपचय हेतुत्वाज्ज्वरः स्वनामख्यातः शारीरशक्त्यपचयनिमित्तस्तापात्मको रोगविशेषस्तस्य तदुपशम हेतुत्वात्सम्बन्धि लङ्घनमपतर्पणम्, उपवास इत्यर्थः । तद्रूपमिति यावत् । यथा लङ्घनेन ज्वरस्योपशमस्तथा शास्त्रेण स्वाच्छन्द्यनिग्रह इति भावः । शास्त्रमनुसरन् हि न स्वैराचारेण वर्त्तते, अन्यथा शास्त्रमनाराधितं स्यादिति बोध्यम् । “ लङ्घनं स्वपतर्पणमि " ति हैमः । तथा, धर्मारामसुधाकुल्याम् - धर्मः शुभं कर्मैव विविधोत्तमफलप्रदत्वात्तदृशलतापादपाद्यात्मक आराम उपवनं तस्य तत्पोषवृद्धिनिमित्तत्वाचसम्बन्धिनी या सुधायास्तत्सम्भृतत्वात्तत्सम्बन्धिनी कुल्या कृत्रिमाऽल्गा सरित्, तद्रूपम् । यथा सुधाकुल्ययाऽऽरामस्य नन्दनवदुपचयादिस्तथा शास्त्रेण धर्मस्य, शास्त्रविहिताऽनुष्ठानस्यैव धर्मजनकस्वात् । यदुक्तमनुपदमेव " शुद्धोच्छाद्यपि शास्त्राज्ञा निरपेक्षस्य नो
२५८
·
-