________________
ज्ञानसारे शास्त्रदृष्टयऽष्टकम्
२५७
हितम्-इष्टम् , ज्ञानादिगुणाऽनुत्कर्षकत्वादिति बोध्यम् । ज्ञानक्रियागुणोत्कर्षे शास्त्रस्यैवाऽधिकृतत्वादित्याशयः । अपिना शुद्धो. न्छादेरहितं विरुद्धमिति सूच्यते । तत्र दृष्टान्तमाह-भौतहन्तुरित्यादि । यथा-येन प्रकारेण, भौतहन्तुः-भूतान्येव नाऽन्यतत्त्वान्तरं चेतनाख्यं किञ्चिदित्येवं वदनशीलो भौतो भूतवादी चार्वाकस्तस्य हन्ता घात कस्तस्य तच्छिष्यस्य भिल्लादेः, तस्य-स्व. गुरोर्भूतादिनः, पदस्पर्शनिवारणम्-पदयो यः स्पर्शः शरादिभिः कृत्वाऽऽघातात्मकः संयोगस्तस्य निवारणं निषेधः, पादाभ्यां कृत्य यः स्पर्शस्तस्य निवारणमिति वा । नो हितमिति सम्बध्यते । अज्ञानाद्यत्किञ्चिच्छु द्रक्रियालाभेऽपि गुरुवधपातकस्य महतोऽनिष्टस्य सम्प्राप्तेरिति बोध्यम् । अत्रेदं मननीयम् -कस्यचिद्भौतस्य मनोहरमयूरपिच्छच्छत्रस्याऽभिलाषिण्या निजप्रियपल्या प्रेरितस्तच्छिष्यः कश्चिद् भिल्ल उपयाच्याऽप्यप्राप्य तं स्वगुरुं हत्वाऽगृहात्तत् । गुरोः पादयोः शराद्याधातं पादाभ्यां स्पर्श वा न कृतवान् , अन्यांश्चाऽपि स्वभटान् तथाकर्तुं न्यवारयत् , गुरोः पूज्यत्वात् । अत्र चैतदा. कूतम्-भूतादिनां हि गुर्वादिवधे न हिंसा, चेतनाऽस्वीकारात्, अचेतनस्य लोटादेर्धातमेदादिषु हिंसाया अभाववत्, पूज्यं तु लोष्टादिकमपि पादस्पर्श नाऽर्हति । अतएव भिल्लो गुरुं हत्वाऽपि पादस्पर्श न्यवारयत् । स एव महानर्थो भिल्लेन शास्त्राज्ञानादेव गुरुपादस्पर्शनिवारणरूपं शुद्धमाचरताऽपि विहितः। तथाऽन्येनापि शुद्धोञ्छादि विधानेनाऽपि शास्त्राऽज्ञानान्महापातकाचरणसम्मव इति सुष्ठूतं "शुद्धोछायपि शास्त्राज्ञानिरपेशस्य नो हितमि"ति ॥ ६॥