________________
भद्रकरोदयाख्यव्याख्याविभूषिते विषममार्गे सम्यगनवलोकनात्पदे पदे स्खलन्ति, आघातादिजन्यं दुस्सहं क्लेशं चाऽनुभवन्ति जना इति प्रतीतम् । तथा मोक्षादि. मार्ग प्रकारान्तरेणाऽगम्ये शास्त्रं विना सहसा प्रवर्तमाना हेयोपादेयादीनां यथा योग्यमनासेवनाल्लक्ष्याद् भ्रश्यन्ति, तत एव च तेषां संयमादिक्लेशो दुःसहो भवति। फलप्राप्तौ हि तदुपायक्लेशः मुसहोऽन्यथा तु सुदुःसह इति प्रतीतमेव । तस्माच्छ्रेयोऽर्थिभिः शाखाश्रयेणेव वर्तितव्यं न तु यदृच्छया । यदुक्तम् - " यः शास्त्र. विधिमुत्सृज्य वर्त्तते काम चारतः । न स सिद्धिमवाप्नोति न सुखं व परां गतिम् ॥ १ ॥ तस्माच्छात्रं प्रमाण ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्र विधानोक्तं कर्मकर्तुमिहाऽईसी "ति भावः ॥ ५ ॥
नन्वेतावता स्खलनं यथा न स्यादिति शास्रमावश्यक मित्यायातम् । ततश्च यस्य न स्खलनं तस्य न शास्त्रेण प्रयोजनम् , नहि शास्त्रं बिना स्खलनमेवेति नियम इति शिष्यकुतक विजघटयिषुराह
शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् ।
मौतहन्तु यथा तस्य पादस्पर्शनिवारणम् ।। ६ ॥ . शुद्धोञ्छादीति । शास्त्राज्ञानिरपेक्षम्य-शास्त्र मुक्तलक्षणं तदा
पत्र विधेयत्वेन प्रतिपादितो विधिस्तस्या निरपेक्षतज्ज्ञानपालनादिष्वादरशून्यः खैरः। किं शास्त्रेण, अहं स्वयमेव शुद्धमाचरामीत्येवं शास्त्रमवमाय यहच्छया प्रवर्तमानः, तस्य, तादृशस्य जनस्य साधो रन्यस्य वा, शुद्धोञ्छादि-शुद्धं दोषवर्जित्वान्निर्दुष्टं करप्यं यद्, - उम्छा भिक्षा, आदिना लोचपृथ्वीशयनब्रह्मचर्यादिस्तत् , नो-नैव,