________________
कानसारे शास्त्रदृष्टयऽष्टकम्
२५३.
नन्वेवमेतत्, किन्तु शास्त्राण्यनेकानि मिथो विरुद्धार्थप्रतिपादकानि, ततश्च प्रेक्षावतां विप्रतिपत्तिरिति शिष्यजिज्ञासायामाह
शासनाप्राणशक्तेश्च बुधैः शास्त्रं निरुच्यते ।। वचनं वीतरागस्य तत्तु नाऽन्यस्य कस्यचित् ॥ ३ ॥
शासनादित्यादि । बुधैः-ज्ञानिभिः, शामतत्वज्ञैरित्यर्थः ।' शासनात्-शासनमुपदेशः, हेयोपादेयविवेकद्वाराऽभ्युदयनिःश्रेय. ससाधनसद्धर्मदेशनेत्यर्थः । तदाश्रित्येति यब्लोपे पञ्चमी । त्राणशक्ते:-अशुभप्रवृत्तिनिषेधशुभप्रवृत्तिविधानतो दुर्गतौ पाताद्रक्षणं त्राणं तत्र तद्विषये या शक्तिः सामर्थ्ययोगो यथास्थितवस्तुप्रति. पादनात्मकः । यदेव हि यथार्थ प्रतिपादकं तदेव शक्तिमद्वच इति बोध्यम् । तदाश्रित्य, चः समुच्चये। शासनकरणात्राणशक्तिमत्त्वाचेति सारार्थः । शास्त्रम्-शास्त्रमित्येवम् , निरुच्यते-प्रतिपाद्यते, यद्धि शास्ति त्रायते च तदेव शास्त्रपदार्थ इति सारः । शासनं
त्राणशक्तिश्च शास्त्रनिकषग्रावेति हृदयम् । एतद्वयं यत्र तदेव शास्त्रं .. नाऽन्यत्, तादृशं च किमित्यपेक्षायामाह-वचनमिति । तत-निरु
कप्रकारं शास्त्रम् , बीतरागस्य-वीतो विगतो राग उपलक्षणत्वाद्वेषादयश्च यस्मात्स रागद्वेषादिशून्यः षष्ठ प्रकृतिरुत्तमोत्तमः पुरुषः, तस्य, वचनम्-देशनावचः, स्यादिति शेषः । यदुक्तम्-" दुर्गति. प्रपतजन्तुजातोद्धरणरज्जवः। तु-भेदे। वीतराग वचनभिन्नमित्यर्थः। अन्यस्य-रागद्वेषामितः, कस्यचित्-रागादिमत्त्वादपकृष्टतयाऽ. ग्राह्याऽभिधेयस्य पुरुषस्य, वचनमिति सम्बध्यते । न-नैव ।