________________
'२५२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
सर्वपदार्थमेव विवृण्वन्नाइ-ऊर्धाऽधस्तिर्यग्लोकविवर्तिनः-ऊर्ध्वमुपरिस्थितो देवविमानाद्यात्मकः, अघो नीचैः स्थितो नरकाद्यास्मकः, तिर्यक् तिरश्चीनो ज्योति मण्डलद्वीपसागराद्यात्मकश्च यो लोको भुनात्मको लोकसंज्ञया ख्यातोऽलोकेतरो धर्माधर्मास्तिकायपरिच्छिन्नः समग्रो लोक इत्याशयः, तत्र विवर्तनं विव उद्वर्तनाऽभवर्तनात्मकतया विविधः परिणाम विधिस्येषामिति ते तादृशास्तान् त्रिलोकी-प्रतिष्ठितानुत्पादव्ययध्रौव्ययुक्तानित्यर्थः । भावान्-भवन्ते प्राप्नुवन्ति तांस्तान् पर्यायानिति भावाः पदार्थास्तान् , सपर्यायाणि लोकस्थानि द्रव्याणीति समुदितार्थः । शास्त्र. चक्षुषा-शास्त्रं वक्ष्यमाणलक्षणं तदेव यथावस्थितवस्तुपरिच्छेदसाधनत्याचक्षुर्नेत्रमिव तेन, शास्त्राभ्यासजज्ञानेनेत्यर्थः । शास्त्रमात्रसाधनत्वात्तज्ज्ञानस्य कार्ये कारणोपचारो बोध्यः । पुरः स्थितानिव-पुरः समक्षं स्थिता विद्यमानास्तानिव तद्वत् , इन्द्रियगोचरानिवेत्यर्थः । अवेक्षन्ते-परिच्छिन्दन्ति । यथेन्द्रियगोचराणी भावानां विशदं परिच्छे इस्तथेन्द्रियाऽगो वराणामपि भावानां शालेग कृत्वा परिच्छेद इति न शास्त्रज्ञोऽल्पज्ञः । शास्त्रे हि हेयानामुपादेयानां च प्रतिगादनात् , अन्यादृशानामभावाच्च । न चैवं सर्वज्ञता, केवली ह्यलोकमनन्तमपि पश्यतीति बोध्यम् । यदुक्तम्-" चक्षुष्मन्तस्त एवेह ये श्रुतज्ञान चक्षुषा। सम्यक्सदैव पश्यन्ति भावान् हेयेतरान नराः" इति " भूतार्थसंशयोच्छेदि परोक्षार्थस्य दर्शकम् । सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव स " इति च ॥ २ ॥