________________
शानसारे शास्रदृष्टयऽष्टकम्
२५९ बधेयम् । सर्वतश्चक्षुषः-सर्वतः सर्वदिक्षु विषयग्राहक केवलात्मकं ज्ञानमेव चक्षुर्येषां ते ताहशाः । चर्मचक्षुषो ह्यप्रे, देवा स्वविमानाद यथासंभवं पश्यन्ति । केवलज्ञानी तु सर्वद्रव्यपर्याय सर्वदैव सर्वभावेन सर्वदिक्षु पश्यतीति स सर्वश्चक्षुरिति बोध्यम् । तथा, साधवः-साध्नुवन्ति परमार्थ परकार्य च ते, मुनयो जगत्तत्त्व. मननपरायणा यतिधर्मस्था विद्वांसश्च, शास्त्रचक्षुषः-शास्त्यनेनsभ्युदयनिःश्रेयसमार्ग हेयोपादेय सामान्यविशेषादिविभागपूर्वकं तत् , आगमादि रूपं शास्त्रपदवाच्यं चक्षुर्विषयपरिच्छेदसाधनत्वाञ्चक्षुरिव येषां ते तादृशाः । यद्धि शास्त्रे प्रतिपादितं तदेव जानन्त्या चरन्ति च । अत एव तेषां लोकसंज्ञारति निषिद्धेति तात्पर्य शास्त्रचक्षुष इति काक्वा ध्वन्यते। उक्तं चाऽन्यत्राऽपि यथा-" चारैः पश्यन्ति राजानः शास्त्रैः पश्यन्ति पण्डिताः गावः पश्यन्ति गन्धेन चक्षुामितरे जना" इति ॥ १ ॥ ___ ननु शास्त्रे न सर्व प्रतिपादितम् , किन्त्वभ्युदयनिःश्रेयसोपाया एवेत्यल्पज्ञाः साधव इत्यायातमिति वैशिष्ट्यं तेषां हीयत इति शिष्यकुचोद्यं व्यपनुदन्नाह
पुरास्थितानिवोऽिधस्तिर्यग्लोकविवर्तिनः । सर्वान् भावान वेक्षन्ते ज्ञानिनः शास्त्रचक्षुषा ॥ २ ॥
पुरस्थितानित्यादि । ज्ञानिन:-ज्ञानं शास्त्ररहस्यबोधात्मकं सम्यग्ज्ञानमस्त्येषामिति ते, सच्छास्त्रपरिशीलनजन्यविशुद्धज्ञानसम्पन्ना मुनयः, सर्वान्-अखिलान् , न तु कतिपयानेवेति काकुः ।