SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५७ भद्रङ्करोदयाख्यव्याख्याविभूषिते ॥ शास्त्रदृष्ट्यष्टकम् ॥ लोकसंज्ञात्यागाद्धर्मसिद्धिरित्युक्तम् । धर्मपरिज्ञानं च शास्त्रइष्ट्येति तदष्टकं वित्रक्षुरादौ कस्य का दृष्टिरिति शिष्य जिज्ञासां समाधित्सुराइ चर्मचक्षुर्भुतः सर्वे देवाचाऽवधिचक्षुपः । सर्वतचक्षुषः सिद्धाः साधवः शास्त्रचक्षुषः ॥ १ ॥ · 1 चर्मचक्षुरित्यादि । सर्वे - सकला भवस्थाः प्राणिनः, चर्मचक्षुभृतः - वर्मणस्तदात्मकत्वात्तत्सम्वन्धि, चर्ममयं त्वमयं वा चक्षुत्रं दर्शनसाधनं येषां ते तादृशाः । निर्वृत्त्युपकरणेन्द्रियादिमन्त इत्यर्थः । सर्वे प्राणिनो बहिरिन्द्रियचक्षुरादिद्वारैव विषयान् गृहन्तीति लाक्षणिकोऽर्थ । तेषां विषयग्रहणे साधनाऽन्तराऽभावादिति बोध्यम् । तदेवं सामान्यमुक्त्वा कतिपयेषु विशेषमप्याहदेवाः - भवनपतिव्यन्तरज्योतिष्क मानिकभे इभिन्ना देवपदवाच्या अजरामराः प्राणिनः, चो भिन्नक्रमोऽवधिचक्षुष इत्यनन्तरं बोध्यः । अवधिचक्षुषः - अवधिरिन्द्रियादिकमनपेक्ष्य ज्ञानावरणीय क्षयोप शमविशेषवशादात्मप्रत्यासत्त्या रूपिद्रव्यविषयकं प्रत्यक्षज्ञानम्, तद्रूपं चक्षुरिव प्रत्यक्ष साधनत्वाच्चक्षुत्रं येषां ते तादृशाः अवधिज्ञानिन इत्यर्थः । चः समुच्चये । देवा न केवलं चर्मचक्षुर्भुतः, किन्त्वविचक्षुषोऽपीत्यर्थः । तथा, सिद्धा: - सिद्धसम्यग्दर्शनज्ञानचारित्रास्तीर्थङ्कराः केवलज्ञानिनः, न तु सिद्धाः सिद्धानन्तचतुष्का मुक्ताः, चर्मचक्षुर्भुतः सर्वे इत्युक्त्या मुक्तभिन्नानामेव प्रस्तुतत्वादित्य-
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy