SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते रागादिमतो हि वचनमप्रमाणं त्राणाऽक्षपं च प्रत्युतपातसाधनमेव । यदुक्तम्- " हितोपदेशात्सकलज्ञक्लप्ते र्मुमुक्षु सत्साधुपरिग्रहाच । पूर्वापरार्थेष्यविरोधसिद्धेस्त्वदागमा एवं सतां प्रमाणमिति, " कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तव शासनाये "ति च । हिंसाद्य सत्कर्मपथोपदेशाद सर्वविन्मूलतया प्रवृत्तेः । नृशंस दुर्बुद्धि परिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणमि "ति चेति तात्पर्यम् ॥ ३ ॥ नन्वस्तु वीतरागवचनं शास्रम्, भवतु च त्रिलोकपदार्थ ततः । तेन को लाभ इति शिष्यजिज्ञासां समाधत्ते -२५४ -- शास्त्रे पुरस्कृते तस्माद्वीतरागः पुरस्कृतः । पुरस्कृते पुनस्तस्मिन् नियमात्सर्वसिद्धयः ॥ ४ ॥ शास्त्रे इत्यादि । तस्माद् - शासनान्त्राणशक्तेश्च वीतराग- वचनस्यैव शास्त्रत्वाद्धेतोः, शास्त्रे - वीतरागवचनात्मके शाखे, पुरस्कृते - पालनादिना पुरस्कृतवत्सबहुमानं पूजिते सति, कमपि हि पूजार्थं पुरस्कुर्वन्ति जना इति भावः । वीतरागः - जिनोऽर्हन्, पुरस्कृतः सादरं सबहुमानं च पूजितः । महतामाज्ञाराधनमेव तत्पूजनम्, तेषां निःस्पृहत्वात्प्रकारान्तरेण तत्पूजाया अयोग्यत्वात्, किञ्चाऽऽज्ञापालने अज्ञातुः स्मरणं स्वाभाविकमिति च बोध्यम् ॥ नवस्त्रेतत् तेन किमिति चेत्तत्राह - पुरस्कृते इति । पुनरिति चाऽर्थे । तस्मिन् - वीतरागे, पुरस्कृते- पूजिते च सतीति शेषः । नियमात् - अव्यभिचारेण, सर्वसिद्धयः- सर्वा निखिलाश्च न तु - काश्विदेव ताः सिद्धयोऽणिमादिसिद्धयो लब्धयः केवलज्ञानादि 1
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy