SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ शानसारे लोक पंज्ञात्यागाऽष्टकम् साधुः, प्रतिस्रोतोऽनुगः-स्रोतः प्रत्याभिमुख्येनेति प्रतिस्रोतोऽनुगच्छतीति स तादृशः, प्रवाहाभिमुख प्रवृत्तिरित्यर्थः । यथा राजहंसो महानद्यामपि प्रतिस्रोतस्तरति तथा महामुनिरपि लोकविरुद्धऽपि शास्त्रविहिते मार्गे प्रतिष्ठते । यद्यपि शुद्धमित्याधुक्तिस्तु लौकिकानां न मुनीनां कृते, तेषां लोकोत्तरस्थितिकत्वाल्लोकानुपालनस्याऽयोग्यसादिति विप्रतिपत्ति न कार्येति भावः । अत्र च प्रतिस्रोतोऽनुग एव महामुनि महामुनिरेव च प्रतिस्रोतोऽनुग इति महामुनिरिति -साभिप्रायविशेषणेन सूच्यते ॥ २ ॥ सम्प्रति शिष्यप्रबोधाय " यद्यपि शुद्धमि "स्याद्यनुरोधेन अवृत्तावनिष्टमाहलोकमालम्ब्य कर्तव्यं कृतं बहुभिरेव चेत् । तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन ॥ ४॥ लोकमित्यादि। चेत्-यदि, लोकम् लोकरीतिम् , आलम्ब्यमाश्रित्य, लोकानुरोधेनेत्यर्थः । वहुजनानुरोधेनेति यावत् । बहुभि:बहुसङ्ख्यकै जनैः, एवकारो भिन्नक्रमः कृतमित्यनन्तरं बोध्यः । कृतम्-आचरितमेव, नत्वल्पेनेत्येवकारार्थः । कर्तव्यम्-आचरणीयम् । इतीष्यते इति शेषः । तदा-तथा स्वीकारे, मिथ्यादृशाम्मिथ्या सावद्यत्वाच्छ्रेयः परिपन्थित्वाद्युक्तिविरुद्धत्वाच विपरीता विविधविरुद्धोपाध्युपहितवस्तुपरिच्छेदिका दृग् दर्शनं सिद्धान्तो येषां ते ताहशा असत्सिद्धान्तानुसारिणो दर्शनविशेषकृतरुचयो हेयोपादेयविवेकविकलास्ते साम्, धर्मः-तच्छास्त्राचारविचारादि
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy