________________
२४२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
सूचयति । तेन च लोकरञ्जनैः सद्धर्मत्यागो बठरतैवेति धन्यते ॥२॥
नयुक्तपकारया निर्भत्सनया शिष्यविपतिपत्तिनिरास इत्यन्तरनुचिन्त्याऽऽह
लोकसंज्ञामहानद्यामनुस्रोतोऽनुगाः न के। : प्रतिस्त्रोतोऽनुगस्त्वेको राजहंसो महामुनिः ॥ ३॥
लोकसंज्ञेत्यादि । लोकसंज्ञामहानद्याम् -लोको लौकिक. श्रेयोमात्रबहुमानः साधारणो जनस्तस्य या संज्ञाऽविहितत्वेऽपि गतानुगतिकतया गड्डरिकापवाहेण प्रवृत्तिस्सैव प्रवाहानुकूलगतिप्रयोजकत्वान्महती गभीरा विपुला तीव्रप्रवाही चासो नदी च सा तस्याम्, 'महानद्यां हि ये पतन्ति ते तत्तीस्रोतसाऽवश्यं ह्रियन्ते, तथा लोका लोकसंज्ञायां लोक प्रवाहेणेति बोध्यम् । अत एव, के-किम्प्रकारा जनाः, अनुस्रोतोऽनुगाः-स्रोतः प्रवाहस्तदनुलक्ष्याऽनुस्रोतः, प्रवाहाऽऽनुकूल्येनेत्यर्थः । तथाऽनुगच्छन्त्यनुहरन्ति प्रवर्तन्ते च ते ताशा अनुगाः, प्रवाहाधीनप्रवृत्तय इत्यर्थः । न-नैव, काक्वाऽपि तु सर्वे एव लौकिकत्रैयःकाक्षिण इत्यर्थः । अतएवोक्तं “ यद्यपि शुद्धं लोकविरुद्धं नाचरणीयं नादरणीयमि "त्याकूतम् । तुर्विशेषे । "महामुनेन्तु विशेष इत्यर्थः । तमेवाह-प्रतीत्यादि । एक:-कवला,
राजहंसः-हंसानां स्वनामख्यातानां पक्षिविशेषाणां राजोत्तमो राजहंसः । राजदन्तादिवत्समासः। तत्तुल्य इत्यर्थः । तद्वद्विशुद्धत्वाद्वि. लक्षणवीर्यशालित्वाच्चेति बोध्यम् । महामुनि:-महान् इतराऽपेक्षया विशुद्धस्वादात्मवीर्यसम्पन्नत्वाच प्रकर्षाश्रयो मुनि नी