________________
शानसारे लोकसंज्ञात्यागाऽष्टकम्
२४१
स्यादि' त्युपदिश्यते । एवञ्च विपतिपन्ना वयमिति शिष्यं गौरवा. निभर्सयन्नाह
यथा चिन्तामणि दत्ते चठरो बदरीफलैः । हाहा ? जहाति सद्धर्म तथैव जनरञ्जनैः ॥ २ ॥
यथेत्यादि । यथा-यद्वत् , बठर-अज्ञः, बदरीफलैः-बदरी कुवली, " कर्कन्धुः कुवली कोलि बंदरी "ति हैमः। तस्याः फलानि बदराणि तैः कृत्वा, बदरीफलमूल्येनेत्यर्थः । चिन्तामणिम्यावञ्चिन्तितप्रदं देव विशेषाधिष्ठितं स्वनामख्यातं मणिम्, दत्तेमर्पयति, विक्रीणीते इत्यर्थः । अज्ञस्य ह्ययं चिन्तामणिरित्यज्ञानात्स सामान्योऽयमुपलखण्ड इति नाऽस्माकमुपयोगीति कृत्वा तेन बदरलामेऽति स्वं कृतकृत्यं ग्राहकं च वठरं मन्यते इत्याशयः । तथा-तेन प्रकारेणैव, एवकारः साम्यातिशये। जनरञ्जन:जनस्य गृहवासिप्रभृतिलोकस्य रज्यते एभिरिति रञ्जनानि रञ्जन. साधनप्रवृत्तयस्तैः कृत्वा, तदाश्रित्येत्यर्थः । सद्धर्मम्-सन् शास्त्र. विहितत्वाच्छ्रेयोनिमित्तत्वाच्छुभो यो धर्मस्तजनकसदाचारादिस्तम् , सम्यक्चारित्रमित्यर्थः । जहाति-त्यजति, मुनिरितिप्रकरणालभ्यते । मुनिर्हि लोकसंज्ञारतो लोकरञ्जनार्थमविहितमप्याचरतीति सद्धर्मापच्यवत्येवेत्यर्थः । तदेतत् , हाहा-शोकोत्कर्षिका वार्ता, ज्ञानिनोऽपि धर्मभ्रंशेनाऽपि लोकेहेति वार्तयाऽपि नितरां दुनोति चेत इत्यर्थः। अत्र मुनिरिति कर्तुरनुक्क्या भङ्गया वठररूपकर्तुः सम्बन्धं