SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते भयायवहारकाल एव स्थैर्यं व्रजेत्, तत्रैव भयादिविकल्पसम्भवात् । हारकालो हि विकल्प कालः । तत ऊर्ध्वं तु निर्विकल्पावस्थेत तत्र न भयादिविकल्पसम्भव इति तत्र ततोऽनन्यचित्तताऽपि न साध्या । तत्र हि विकल्पाभावादेवाऽनन्यचित्तता नतु तत्र कारणान्तरमपेक्ष्यत इत्याशयः । ननु तर्हि सिद्धयोगस्य किमित्याकाङ्क्षायामाह - स्वात्मेत्यादि । तु विशेषे । स्वात्मारामसमाधौ ततो विशेष इत्यर्थः । तमेवाह - स्वात्मारामसमाधौ - स्वात्मन्येव सच्चि दानन्दात्मके आ समन्ताद्रमणं रामो लीनता यत्र तादृशश्वाऽसौ समाधि र्ध्यातृध्यानध्येयैकात्म्यात्मकः सर्वयोगसंन्यासावस्था च तत्र निर्विकल्पसमाधावित्यर्थः । तद् भवभयम् अपिना विकल्पान्तरसमुच्चयः । अन्तः - तादृशसमाधौ निमज्जति-लीयेत । बिकल्पमात्रं व्युपशाम्यतीति समुदितार्थः । समाधिर्हि सविकल्पको निर्विकल्पकश्च । तत्र सविकल्पसमाधौ तत्साधनकाले च भवभयं चित्तस्थैर्य प्रयोजकं न तु निर्विकल्पसमाधौ तत्र हि विकल्पमात्रस्य - व्युपरमादात्ममात्रस्यैव सच्चिदानन्दात्मकस्य प्रतिभासाच्चित्ताऽस्थैर्य-सामग्र्या एवाऽभावात् । एवञ्च भवभयात्सविकल्पसमाधिं सावयेत् । दूर्ध्वं निर्विकल्प समाधिलाभ इत्यतो भवस्य भयानकस्वरूपं ज्ञात्वोद्विज्य स्थैर्यं साधयित्वा स्वात्मारामो भवति मुनिरित्यष्टकपरमार्थः ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवरश्रीयशोभद्रविजयजी गणिवर शिष्यपन्यास श्रीशुभङ्करविजय गणिविरं चितायां भद्रकरोदयाख्यायां व्याख्यायां भवोद्वेगाऽष्टकं नाम द्वाविंशतितमाऽष्टकम् ॥ २२ ॥ " ३३८
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy