________________
मानसारे भवोद्वेगाऽष्टकम्
२३७
मी:-भयम्। यथा विषस्य विषमौषधम् , तथा भयङ्करस्य भयावह एवोपायः। तथा, यथा विषाविष्टस्तदुपायरूपविषानोद्विजति, ततो विषावेगश्च शाम्यति. यथा वा वह्निदग्धो वहितापान बिमेति, तापश्च तस्य तत एव नश्यति, तथा भवभीत उपसर्गान बिमेति भवं च नाशयति । यद्वा भवभीता मुनय उपसर्गादिभये सत्यपि चारित्राराधनपरा दृश्यन्ते इति भवभयस्य भयावह एवोपायस्तत एतत्सत्यं यदुत विषस्य विषमौषधमिति तात्पर्यम् ॥ ७॥
ननु भवभयादनन्यचित्तता चेदपास्ता निर्विकल्पसमाधिकथा, भवभयात्मक विकल्पसद्भावात्, अन्यथा कारणाभावात्कार्याभावप्रसङ्गादिति शिष्यतर्क व्यपाकुर्वन्नुपसंहरति
स्थैयं भवभयादेव व्यवहारे मुनि व्रजेत् । स्वात्मारामसमाधौ तु तदप्यन्तनिमज्जति ॥८॥
इति महामहोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे भवोद्वेगाष्टकं नाम द्वाविंशतितमाष्टकम् ॥ २२ ॥
स्थैर्यमित्यादि । मुनि:-ज्ञानी साधुः, व्यवहारे-व्यवहारकाले, योगसाधनकाल इत्यर्थः । भवभयात्-भवादुक्तप्रकाराद्यद्भयं मीति रुत्पातसङ्कटपातसम्भावनया चित्तसङ्कोचस्ततो हेतोः, एवकारेण तदवस्थायामनन्यचित्तताप्रयोजक साधनान्तराभावः सूच्यते। स्थैर्यम्-क्रियास्वनन्यचित्ततात्मकतल्लीनताम् , स्थिरचित्तवृत्तित्वमित्यर्थः । व्रजेत्-प्राप्नुयात्, साधयेदित्यर्थः । भयाद्धि तत्राणहेतौ यथाऽनन्यचित्तता भवति न तथा प्रकारान्तरेणेति भवभयादेव स्थैर्य व्रजेदित्याशयः । अथवैवकारो भिन्नक्रमः। तथा च, भव