________________
२३६ .
भद्रकरोदयाख्यव्याख्याविभूषिते
मुनेरपि भवभयाक्रियास्वनन्यचित्तता जायते । तथा राधावेधे व्यापृतश्चाऽपराद्धेषुर्माभूवमिति लक्ष्यच्युतिभयादेकचित्तो भवति । अत्र च मुनिरेव भवभयाक्रियास्वनन्यचित्तो भवति, क्रियास्वनन्यचित्तश्च मुनिरेवेत्युभयं मुनिपदोक्त्या ध्वन्यते ॥ ६ ॥
ननु यथा भवभीस्तथा चारित्रे उपसर्गादिभीरिति मुनेरुमयतः पाशारज्जुरिति शिष्यतर्क निराकरिष्णुराह -
विषं विषस्य वह्वेश्च वह्निरेव यदौषधम् । तत्सत्यं भवभीतानामुपसर्गेऽपि यन्न भोः ॥७॥ विषमित्यादि । यत्-यदेतत् , विषस्य-गरलस्य, सर्पादिदष्टस्य भक्षितविषान्तरादे ; देहिनो देहे प्रसरतो विषदोषस्येत्यर्थः । विषम्-विषवदुप्रं मूर्छा दिप्रदं च द्रव्यम् , औषध-भेषजम् , विषप्रभावमारणात्मिका चिकित्सेत्यर्थः । तथा, वह्ने:-वह्निदग्ध. जनतनुतापस्य, चः समुच्चये । वह्निः-अग्नितापदानमेव, औषध. मिति सम्बध्यते । लोके प्रतीतमितिशेषः । लोके हि विषावेगोपशमाय विषवदुअमेवौषवं प्रयुज्यते, तथा बहिदाह जनिततापनाशाय वह्नितापमेव पुर्नदत्ते इति प्रतीतमित्याशयः । यदि पुनः कस्याऽपि तदननुभूतम् , तदाऽपि श्रद्धेयमित्याह-तदित्यादिना । तत्-विषस्य विषमौषधमिति लोकप्रथा, सत्यम्-युक्तम् , मन्ये इति शेषः। यत्:-यतः, भवभीतानाम्-उक्त कारातिदारुणभवाब्बिभयग्रस्तानाम् , उपसर्गे-अतिकष्टत्वात्सुदुःसहे भयङ्करे उपद्रवेऽपि, अपिता सामान्योपद्रवे तु कथैव केतिसूच्यते । न-नैव,