________________
२३४
भद्रङ्करोदयाख्यव्याख्याविभूषिते.
रिव, तस्मात् , नित्योद्विग्न:-नित्यमनवरतमुद्विग्नोभीतः क्षुधश्च सन् । नतु यदाकदाचिदेव, अनिष्टहेतोः सर्वदैव सद्भावादुर्दिवारत्वाञ्चेति भावः । विस्पष्टपटुवत्समासः । सर्वयत्नेन-सर्वप्रकारेण प्रयासेन, कायादिसर्वविधव्यापारेणेत्यर्थः । धनपुष्कलवेतनवितरणादिरूपोद्यमेन च । तस्य-वर्णितप्रकारस्याऽतिदारुणस्य भवाम्भोधेः, सन्तरणोपायम्-सम्यग् यथा न पुनः पातःस्या. तेनप कारेण यतरणं पारगमन भवोच्छे इश्च, भवाब्बित आत्यन्तिक. रूपेग निर्गमनमित्यर्थः । तस्योपायः साधनं चारित्रं दृढपोत पटुवीवरादिसामग्रीं च, कासति-इच्छति, नहीच्छामात्रेण कृतकृत्यतेतिलक्षणयाऽऽयतीत्यर्थः । यदुक्तम्-" कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ती " ति " चिन्तनीया हि विपदामादावेव प्रतिक्रिया” इति च । यो हि भयङ्करस्तत उद्वेग स्ततस्त्राण साधनाश्रयणं चोचितमेव । एतदेव हि ज्ञातफलम् । अन्यथा मूर्खान्न ज्ञानिनः कोऽपि विशेष इति ज्ञान्येवाऽपायं सम्भाव्योपायं चिन्तयति, यश्चोपायं चिन्तयते स एस ज्ञानी ते च तात्पर्यम् ॥ ५॥ __ ननु विविधाऽऽपात्याऽपरिहरणीयविषयविक्षुब्धचित्तस्य सर्व यत्नेन सन्तरणोपायाश्रयणं वाङ्मात्रमिति शिष्यत परिजिहीर्षुराह
तैलपात्रधरो यद्राधावेधोद्यतो यथा। क्रियास्वनन्यचित्तः स्याद्भवभीतस्तथा मुनिः ॥ ६ ॥ तैलपात्रेत्यादि । यद्वत्-यथा, तैलपात्रधरः-तैलस्य तैलेना