________________
शानसारे भवोद्वेगाऽष्टकम्
२३३
पद्रवहेतुश्चक्रवातादिः, द्रोह एव परघातचिन्तादिरूपनष्ठुर्यसाधाद् गर्जितानि निष्ठुरस्तनितानि, " स्तनितं गर्जितमि” त्यमरः। तैः कृत्वा, उत्पातसङ्कटे-उत्पातः प्रवहणभङ्गाद्युपद्रवो वधबन्धाधुपद्रवश्व, तेन कृत्वा यः सङ्कटः सम्बाधः, निरन्तरितोपद्रव इत्यर्थः। उत्पातपरम्परेति यावत् । तस्मिन् , “ समौ सम्बाधसकटावि " ति हैमः । पतन्ति-परवशत्वादवतरन्ति, उत्पातसङ्कटं प्राप्नुचन्तीति यावत् । अब्धौ हि सांयात्रिका विद्युदादिभिः प्रवहण. भङ्गादिरूपोत्पातसङ्कटे पतन्ति, भवे चाऽपि दुर्बुद्ध्यादिभि लोंका वधवन्धाधुत्पातसङ्कटे पतन्ति । न च ततस्त्राणसौलभ्यम् , गाम्भीर्यादेसाणपरिपन्थिदृढतरसाधनस्यैव सद्भावादिति भवः साधर्म्यातिशयादब्धिरिवाऽतिदारुण इत्याशयः ॥ ४ ॥
सम्प्रत्युपसंहरन्नुक्तवर्णनप्रयोजनमाहज्ञानी तस्माद्भवाऽम्भोधे नित्योद्विग्नोऽतिदारुणात् । तस्य सन्तरणोपायं सर्वयत्नेन कासति ॥५॥
ज्ञानीत्यादि । ज्ञानी-उक्तपकारभवाब्धिस्वरूपज्ञः सम्यग्ज्ञानसम्पन्नो मुनि दीर्घदृष्टिः पोतवणिक्च, तस्माद्-उक्तप्रकाराद् " यस्य गम्भीरमध्यस्ये" त्यादिवर्णितस्वरूपात्, अत एव, अतिदारुणात्-अत्यन्तं सर्वाधिकं दारुणो भयङ्करस्तस्मात् । उक्तप्रकारो हि महानिष्टहेतुरिति सोऽत्यन्तं भयङ्करः, अनिष्टप्रकर्षसम्भावनया हि भयप्रकर्ष इति बोध्यम् । भवाम्भोधेः-भवो जन्मबरामरणाद्यात्मकः संसार एवोक्तप्रकारसाधर्म्यातिशयसद्भावादब्धि.
माह