SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२ भद्रङ्करोदयाख्यव्याख्याविभूषिते " इति 1 और्वस्तु वाडवो वडवानल इति चामरः । ज्वलति - दीप्यते, कामपक्षेऽत्युप्रतया तिष्ठतीत्यर्थः । समुद्रे वडवानलो भवति, तस्य च जलमेवेन्धनमिति पदार्थविदः । भवे च स्त्रीषु रागात्कामः प्रजायत इति भवोऽब्धिरित्याशयः । तथा यः - यत्प्रकारो भवाब्धिः, घोररोगशोकादिमत्स्य कच्छपशङ्कुलः - घोरा दारुणा ये रोगा यक्ष्मादयः शोका इष्टवियोगाऽनिष्टसम्प्रयोगादिजनिता मन्यवः, आदिना मोादयः, त एव मत्स्या मीनाः कच्छपाः कूर्माश्च जल: वचित विक्षोभ करास्तैः सङ्कुलः समाकीर्णः । अन्धो हि भयङ्करा मत्स्यादयो जलं विक्षोभयन्ति, रोगादयश्चापि भवे चित्तं विक्षोभयन्ति कष्टत्वाद्भयङ्कराश्चेतिभावः । " दारुणं भीषणं भीष्मं घोरमि" त्यमरः । सङ्कुलमाकुलम् । कीर्णमाकीर्णंचे " ति हैमः ॥ ३ ॥ 66 1 भवान्धावुत्पातादिप्राप्तिरूपं विशेषमाहदुर्बुद्धिमत्सरद्रोहै विद्युदुर्वातगर्जितैः । यत्र सांयात्रिका लोकाः पतन्त्युत्पातसङ्कटे ॥ ४ ॥ 66 1 दुर्बुद्धीत्यादि । यत्र - यस्मिन् भवाब्धौ सांयात्रिकाः - पोतवणिजइव, " सांयात्रिकः पोतवणिगि " त्यमरः । लोका- भविनो जनाः, दुर्बुद्धिमत्सरद्रोहैः- दुर्बुद्धयोऽशुभप्रवृत्तिहेतवोऽस्थिरा मतयः, मत्सरोऽन्यशुभद्वेषः, " मत्सरोऽन्यशुभद्वेषे " इति हैमः । द्रोहः परघातादिचिन्ता, तैः, तद्रूपैरित्यर्थः । विद्युदुर्वा नगर्जितैः-यथाक्रमं दुर्बुद्ध्यश्चञ्चलत्वाद्विद्युतस्तडितः, “तडित्सौदमनी विद्युदि " त्यमरः । मत्सर एवाऽन्योपद्रव विधिप्रयोजकत्वाद्दुर्वातः प्रवहणो
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy