SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे भवोद्वेगाष्टकम् २३१ कषायपदवाच्या भवे आद्यन्तं व्याप्ताः, पातालकलशाः - पातालं रसातलम्, अत्योन्नत्यात्तदभिव्याप्यस्थिताः कलशा घटास्तदाकृती यो गर्तविशेषाः, तद्रूपा इत्यर्थः । " अधोभुवनपातालं वलिसद्म रसातलमि " त्यमरः । चित्तसङ्कल्पवेलावृद्धिम् - चित्तं मनस्तस्य तत्त्वातत्र जायमानत्वाद्वा तत्सम्बन्धिनो ये सङ्कल्पा विषय. विकल्पाः, मनोवृत्तय इत्यर्थः । त एव वृद्धिसाधर्म्यालाः कूलेऽम्भसो वृद्धयस्तासां वृद्धिमपरापरोत्पत्तिरूपां परम्पराम्, "वेला स्याद्वृद्धिरम्भस इति हैम: ः । वितन्वते - विस्तारयन्ति विदधति वा । समुद्रे हि अनेक योजनविस्तृना महात्रातसम्भृताः पातालकलशा वेलावृद्धिहेतव इत्यागमः । भवेऽप्याद्यन्तं व्याप्ताः कषायास्तृष्णासहिताः सङ्कथं वर्धयन्तीति भवोऽविश्चित सङ्कल्पवेला वृद्ध्याऽतिदारुण इत्याशयः ॥ २ ॥ 99 > अथ भवाब्धे वडवानलयादः सद्भावरूपं विशेषमाह - स्मरौलत्यन्तर्यत्र स्नेहेन्धनः सदा । यो घोररोगशोकादि मत्स्य कच्छप सकुलः ॥ ३ ॥ स्मरौर्वाग्निरित्यादि । यत्र - यस्मिन् भवसागरे, अन्तःअभ्यन्तरे, सदा-सर्वदा नतु यदाकदाचिदेव, स्नेहेन्वनः - स्नेहः स्त्रीप्रभृतिषु रागोऽभिलाषः प्रेम वा अग्निपक्षे जलमित्यर्थः । स एवेन्धनं काष्ठमग्नेरिवाश्रयत्वादिन्धनमिव यस्य स तादृशः, स्नेहेन्ध • नाश्रित इत्यर्थः । स्मरौर्वाग्निः स्मरः काम एव तापपदत्वाद्दुःशननीय चरित वडवानलः, " कामः पञ्चशरः स्मर "
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy