SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २३० भद्रकरोदयाख्यव्याख्याविभूषिते इति ध्येयम् । " वज्रोऽस्त्री हीर के पवावि " त्यमरः । तथा, यत्रयादृशे भवाम्भोधौ, पन्थानः - अब्धे निर्गमनमार्गाः, भवनिर्गमनमार्गाः संयमादयश्च व्यसनशैलौघैः - व्यसनानि स्त्रीद्यूताद्यभिनिवेशा: । रोगशोकादीनि कष्टानीत्येवं कस्यचिद्व्याख्यानं तु न सम्यक्, अग्रे तेषां मत्स्यादिरूपतया वर्णयिष्यमाणत्वादित्यवधेयम् ॥ तान्येव नानाविधत्वाद्विषमत्वाद्दुः साध्यत्वाच्च शैलाः पर्वता इव तेषामोघाः समूहास्तैः कृत्वा, रुद्धा: - आवृताः, अत एव, दुर्गमा:'दुःखेन गन्तुं योग्या दुराराधनीयाश्चेत्यर्थः । समुद्रो हि गम्भी `वज्रमयतः पर्वतैरुद्धत्वात्ततो निर्गमनमार्गश्च दुर्गो भवति । मवोऽपि दुर्लभ्याऽन्तत्वाद्गम्भीरोऽज्ञानतलो व्यसनाकीर्णत्वादुगंध ततो निर्गमनमार्गः संयमादिरिति भवोऽब्धिरिवाऽतिदारुणः, व्रतस्तस्मादुद्विग्नो ज्ञानी तस्य सन्तरणोपायं काङ्क्षतीति पञ्चमकोकेन सम्बन्धो वोध्यः ॥ १ ॥ " ननु यदि भवोsब्धिस्तर्हि तत्र पातालकलशादयोऽपि स्युरितिशिष्या का इक्षायामाह - पातालकलशा यत्र भृतास्तृष्णा महानिलैः । कषायाश्चित्तसङ्कल्पवेलावृद्धिं वितन्वते ॥ २ ॥ पातालेत्यादि । यत्र - यादृशे भवाम्भोधौ, तृष्णामहानिलैःतृष्णा विषयाऽभिलाषा एव सङ्कल्पवेलावृद्धिप्रयोजकत्वान्महान्तः प्रचण्डतमाः प्रभूताश्चाऽनिला वायवस्तैः कृत्वा, भृता:- पूरिताः, कषायपक्षे सहिता इत्यर्थः । कषायाः - क्रोधमान माया लोभाः -
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy