SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ भानसारे भबोद्वेगाऽष्टकम् ॥ भवोद्वेगाऽष्टकम् ॥ ___ साम्यमास्थितो भवाब्धेस्तत्स्वरूपं जानन्नुद्विनति तं सन्तितीति चेते शिष्यप्रबोधाय भवोद्वेगाऽष्टकं विवक्षुरादौ तदीयमतिदारुणं स्वरूपमेव पञ्चभिर्वर्णयन्नाहयस्य गम्भीरमध्यस्याऽज्ञानवज्रमयं तलम् । रुद्धा व्यसनशैलौवैः पन्यानो यत्र दुर्गमाः ॥१॥ __ यस्येत्यादि । यस्य-याहशस्य भवाब्धेः, गम्भीरमध्यस्यगम्भीरमनुतानम् , अते निम्नमित्यर्थः । गाम्भीर्येऽतिशयश्व प्रस्ताचवलाद्बोध्यम् । सातिशयगम्भीरस्याऽतिदारुणवादुकटोद्वेगपयोज. कत्वनिर्वाहादित्यवधेयम् । शतसहस्र पुरुषप्रमाणगम्भीरमिति यावत् । भवपक्षे चाऽनन्तजन्मनाऽप्यप्राप्तान्तत्वाद्गभीरमिव गम्भीरमित्यर्थः । तदेव हि गम्भीरं यत्तलं दुष्पाप्यमिति भावः । " निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये" इत्यमरः । तादृशं मध्यं मध्यभागो भव. पक्षे च मध्यावस्था यस्य स तादृशः, तस्य तादृशस्य सतः, तलम्अपस्तनभूभागः, यत्राऽगरजलराश्यात्मकोऽब्धिस्तदित्यर्थः । भव. पक्षे च हेतुभून आश्रय इत्यर्थः । यथा समुद्रस्य तलमाश्रयस्तथा भवस्य य आश्रयः स आश्रयत्वसाधात्तलवतलमिति बोध्यम् । अज्ञानवज्रमयम्-अज्ञानमविद्या, मिथ्याज्ञानमित्यर्थः । तदेव दुर्भचत्वाद्वनंहीरकमिव, तद्विकारस्तत्पचुरो वाऽज्ञानवज्रमयम् । यथा समुदस्याऽऽश्रयस्तलं दुर्भेयवज्रमयमपि भवेत् , तथा भवस्य हेतुभून बायोऽज्ञानं दुर्भेयम् । अज्ञानादेव हि भवः, ज्ञानात्तु तनाश
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy