________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
साम्य
साम्यमित्यादि । यः - यादृशः प्राक्तन पुण्यशाली जनः, हृदि - शुभवृत्तिके मनसि कर्मविपाकम् उक्तप्रकारेण दुर्वारसामर्थ्यकर्मपरिणामम्, चिन्तयन् उक्तप्रकारेण ध्यायन्, साम्यम् - सुखदुःखयोः कर्मविपाकाऽधीन मेतदितिबुद्धया दैन्यविस्मयाऽभावरूपां समताम्, बिभर्त्ति - धत्ते, आश्रयतीत्यर्थः । एतेन साम्यलाभे कर्मविपाक चिन्तनमुपयोगीति सूच्यते । सः - तादृश एव, सम्पन्न एव नत्वन्य इत्येवकारार्थः । चिदानन्दमकरन्दमधुत्रतःचिन्निर्विकल्पा मतिस्तज्जनितो य आनन्दः शाश्वताऽखण्डाऽनन्त-सुखम्, निर्विकल्पमतेस्तदेव फलमिति बोध्यम् । यद्वा चिच्चाऽऽ नन्दश्च तौ, स तौ वा मकरन्दः पुष्परस इव पुष्पस्याsसाघारणो धर्मो भ्रमरस्येव साधोरिष्टत्वान्मकरन्दस्तस्य तदुपभोगाऽधिकृतत्वा'चत्सम्बन्धी मधुत्रतो भ्रमरः, तद्रूप इत्यर्थः । " मधुत्रतो मधुकरो मधु
मधुपालिनः । द्विरेफपुष्पलिड्भृङ्गषट्पद भ्रमरा|ऽलय " इत्यमरः । स्यात्-भवेत् । यथा मधुत्रतो मकरन्देन वर्त्तयते तथा साम्याश्रयेण साघुरपि चिदानन्देन वर्त्तयेतेत्यर्थः । न साम्यं विना विशुद्धं ज्ञानं परमानन्दश्चेति तल्लाभाय कर्मविपाक चिन्तनपूर्वकं साम्यमवश्यमाश्रयणीयम् । यदुक्तम् - " न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाऽप्रिबम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्वह्मणि स्थितः " इति भावः ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृ- कविरत्न- प्रन्यासप्रवर श्रीयशो भद्रविजयजी गणिवर शिष्य-पन्यास श्री शुभङ्कर विजयगणिविरचितायां भद्रकरोदयाख्यायां व्याख्यायां कर्मविपाक चिन्त-नाऽष्टकं नामैकविंशतितमाष्टकम् ॥ २१ ॥
૧૮