________________
ज्ञानसारे कर्मविपाक चिन्तनाऽष्टकम्
न चरमोऽन्तिम आवर्त्तः पुद्गलपरावर्त्त कालस्तस्मिन् । अनेकबुद्ध परावर्त परिमाणाऽवशिष्ट भत्रे इत्यर्थः । विद्यमानम्य साधोरिति चरमावर्ति माधोरित्यनुपदोक्तिबलाल्लभ्यते । पश्यतः- अवलोकमानस्वाऽपि प्रयत्नेन पालयतोऽसीत्यर्थः । अप्रमादिनोऽपीति यावत् । अप्यर्थोऽर्थवलाल्लभ्यते । धर्मम् पुण्यम्, तत्परिणामञ्च, हरतिनाशयति, अतिक्रुिष्टोदयत्वाच्छुभप्रवृत्तेरप्रमादिनोऽपि चालयतीत्यर्थः । कर्मविपाको बलादध्युत्पथे नयतीति भावः । तु विशेषे । चरमावर्ति साधोस्ततो विशेष इत्यर्थः । स क इत्याकाङ्गायामाह - चरमेत्यादि । चरमावर्ति माधोः- चरमोऽन्तिम आवर्त्तः पुद्गलपरावर्त कालोऽस्त्यस्य स पुद्गल रावर्तपरिमाणभवः, स चासौ साधुश्च लौकिक सुखविमुखः सर्वसावद्यविरतस्तस्य, छलम् - प्रमादरूपं छिद्रम्, अन्विष्य - प्राप्य दुष्यति - मलिनीकरोति, धर्ममिति सम्बध्यते । कर्मविपाकस्तथा प्रचलो येन साधोरपि भवबाहुल्ये
तदपत्येऽपि प्रमादे सत्यधः पातयतीति साम्यमाश्रित्याप्रमा दिना सता कर्मक्षयाय यतनीयमित्याशयः ॥ ७ ॥
अथ शिष्यचित्तावर्जनाय कर्मविपाकचिन्तनस्य साम्यस्य च फलं प्रदर्शयन्नुपसंहरति -
साम्यं विभर्ति यः कर्मविपाकं हृदि चिन्तयन् । स एव स्याच्चिदानन्दमकरन्दमधुव्रतः
२२७
॥ ८ ॥
इति महामहोपाध्याय श्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे कर्मविपाक चिन्तनाऽष्टकं नामैकविंशतितमाष्टकम् ॥ २१ ॥
•
.