________________
भद्रङ्करोदयाख्यव्याख्या विभूषिते
स्वाद्विरमन्त्रि, घटोत्पाद एवं तेषां कारणत्वात् । अन्यथाऽऽपराऽपरघटाद्युत्पादपरम्पराया अविरामापत्तेः, कारण साकल्येऽपि कार्याsनुत्पत्तौ कारणत्वस्यैव विघटनादित्याशयः । ननु तर्हि कर्मविपाकस्य किमित्याशङ्कानिरासायाह विपाक इत्यादि । कर्मणः- शुभाशुभकर्मणः साधारणकारणस्य, विपाकः - परिणामः, व्यापार इत्यर्थः । कार्यपर्यन्तम्- कार्यस्योत्पाद्यस्य घटादेः पर्यन्तोऽन्तः, विनाश इत्यर्थः । तं यावत् । कार्यान्तं यावन्न तु कार्योत्पत्तिं यावदेवेत्याशयः । अनुधावति - अनुवर्त्तते । उत्पत्तौ हि कारणान्तरव्यापारः, तथा नाशेऽप्यन्यदेव किमपि कारणम् । कर्मव्यापारस्तु नाशं यावत् । यथोत्पत्तिः कर्मविपाकात्तथा स्थितिर्व्ययोऽपि च तत एव । एवञ्च वस्तूत्पादव्ययधौव्येषु कर्मणो व्यापारात्सर्वेषु कारणेषु कर्मैव प्रधानम्, अन्यथा किमित्युत्पन्नमेव किञ्चिन्नश्यति किञ्चित्तिष्ठति, किञ्चिचाserकालं किञ्चिच चिरं तिष्ठति । तस्मादृदृष्टकारणेभ्योऽन्यददृष्टं तत्र कारणमिति न स्वकृतमेव सुखादिकमिति तत्र स्वास्थ्येनैव स्थेयमिति भावः ॥ ६ ॥
१२२६
-
-
"
नन्वस्तु कर्म प्रबलम्, किन्तु लौकिक सुख विमुखस्य सर्वसावधविरतस्य साधोर्न कोऽप्यर्थः कर्मणा । यद्धि कर्माधीनं साधस्तत एव विरतत्वादिति शिष्यसम्मोहव्यपोहायाइ -
अमाव चरमावर्ते धर्म हरति पश्यतः । चरमावर्चिसाधोस्तु च्छलमन्त्रिष्य दुष्यति ॥ ७ ॥ असावित्यादि । असौ - उक्तप्रकारः कर्मविपाकः, अचरमावर्त्ते
1