________________
झानसारे कर्मविपाकचिन्तनाऽष्टकम्
२२५
मोहनीयादिकर्मणा प्रयोजकेन, अनन्तसंसारम्-अनन्तोऽगण्यो यः संसारो भवस्तम् , भ्राम्यन्ते-प्राप्यन्ते । उपशान्तमोहाः श्रुत. केवलिनश्चाऽप्युदीर्णाऽशुभकर्मवशादनन्तं भवं भ्रमन्ति, तत्र का कथाऽल्पचारित्रज्ञानानामिति समुदिततात्पर्यम् । तदेतद् । अहो!माश्चर्यम् । तादृशा अपि कर्मविपाकाधीना इत्याश्चर्य कर्मणः प्रावस्यमित्यर्थः । तस्मात्सुखे दुःखे च कर्मणोऽप्रतिविधेयतया साम्यमेवाऽऽश्रयेत् , स्वस्य तत्राऽव्यापारादित्याशयः ॥ ५ ॥
ननु सुखदुःखादिसामग्रीसाकल्यं स्वकृतमेव, तस्मिन् सत्येव च कार्यमिति तत्र कर्मणा किंकर्तव्यमिति शिष्यशङ्खां निराकरिष्णुराह--
अाक् सर्वाऽपि सामग्री श्रान्तेव परितिष्ठति । विपाकः कर्मणः कार्यपर्यन्तमनुधावति
अर्वागित्यादि । सा-निखिला, कर्मभिन्नति बोध्यम् । अपिना न तु काचिद्वहुशो वा, किन्वेकयाऽप्यन्यूनेति सूच्यते । सामग्रो-कारणम् , असाधारण कारणकूटमिति समुदितार्थः । भान्ता-श्रमं परिगतेव, अरि-प्राक्तनकाले, कार्योत्पादकालं बावदेवेत्यर्थः । परितिष्ठति-भवति । यथा किमपि दूरं ग्रामादिकमुद्दिश्य प्रस्थितः पान्योऽध्यचकनगान्तो मध्य ए। क्यापि न्युपरतक्रियस्तिष्ठति, तथा कारणत्वेन प्रसिद्धानि सण्यिपि दण्डादीनि घटोस्पादकालं यावदेव प्रभवन्ति, उसने घटे तु कृतकृत्य