________________
२२४
भद्रङ्करोदयाख्यव्याख्याविभूषिते
व्यवस्थाऽभावात् । किन्तु नाशनीयमेव तत् । तत्र हि प्रीतिरप्रीति
र्वा सफला, यत्स्वाधीनम् । तच्चाऽऽराधनीयं यतो व्यवस्थितं फलं लभ्यते इति भावः ॥ ४ ॥
न केवलं विषयविषमूढबुद्धिष्वेव कर्माणि प्रभवन्त्यपि तु -मुनिष्वपि बहुष्विति शिष्यं प्रबोधयन्नाह -
आरूढाः प्रशमश्रेणिं श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो ! दुष्टेन कर्मणा ॥५॥
आरूढा इत्यादि । प्रशमश्रेणिम्-प्रकृष्टः प्रकर्ष प्राप्तः शमो मोहनीयकर्मोदयशान्तिः, आत्यन्तिकमोहनीयकर्माऽनुदय इत्यर्थः । तस्य या श्रेणिरवस्था, कर्मोपशमाऽवस्थेत्यर्थः ।' मोहोदयोपशमायाऽनन्तानुबन्ध्यादिनिरोधक्रमप्रयोजकपरिणामपरम्परा वाऽर्थः । ताम् , आरूढाः-अधिष्ठिताः, मोहोदयोपशमाच्छुद्ध चारित्रसम्पन्ना इत्यर्थः । अधःपातकारण विरहिता इति केचित् , तन्न । कारणं कर्मोपशान्तमेव । विरहस्तु तस्य क्षयादेवेति बोध्यम् । एवञ्चोपशान्ताऽधःपातकारणा इति यावत् । श्रुतकेवलिन:-श्रुते ध्य नेकद्वादशविधेऽङ्गाविष्टेऽङ्गबाह्ये च केवलिन इव संशयविपर्यबादिशून्यज्ञानसम्पन्नाः, श्रुताम्भोधिपारंगताः सकलहेयोपादेयपरिहारोपादानो गयविद इत्यर्थः । श्रुताद्धि हेयोपादेयपरिहारोपादानोपायज्ञानमिति बोध्यम् । च:-समुच्चये । अपिना तन्यूनगुणस्य तु कथैव केति सूच्यते । दुष्टेन-अशुभेत भवान्तरप्रयोजकेन, कर्मणा-उपशान्तेनाऽपि क्षयमनुपगतेन केनाऽपि कारणेनोदीर्णन