________________
ज्ञानसारे कर्मविपाक चिन्तनाऽष्टकम्
२२३
सम्भवात् । तस्मात्कर्मविपाकाऽधीनमेव जगदिति सुष्ठुतं ' दुःखं प्राप्य न दीनः स्यादि 'ति, अपि तु सुखदुःखयोः समतामेवाssश्रयेदिति भावः ॥ ३ ॥
तत एव कर्मविपाकाधीने फले सुखादौ ज्ञानिनो विराग इति शिष्यमनुबोधयन्, यद्वा - ननु तर्हि सर्वपरिहारेण सर्वथा कमैंवाऽऽराधनीयं यथा न दुःखं स्यादिति शिष्य कुत निराकरिष्णुराहविषमा कर्मणः सृष्टि ईष्टा करमपृष्ठवत् । जात्यादिभूतिवैषम्यात्का रति स्तत्र योगिनः १ ॥ ४ ॥
"
विषमेत्यादि । कर्मणः - ज्ञानावरणीयादिकर्मणः, तत्प्रयोजितस्वात्तत्सम्बन्धिनीत्यर्थः । सृष्टिः - फलसर्गः फलनिर्माणमित्यर्थः । जात्यादिभूतिवैषम्यात्-जाति र्गोत्रम्, आदिना बलरूपचातु-र्यादिः, तस्य या भूतयः सम्पद उच्चैर्गोत्राऽतुल बलरूप चातुर्यादिरूपास्तासां वैषम्याज्जात्यादिमतां रत्वाज्जात्यादिहीनानां च राजत्वादेश्व विसदृशत्वात् विचित्रत्वाद्धेतोरित्यर्थः । करभपृष्ठवत्करभ उष्ट्र स्वस्य यत्पृष्ठं तनुपश्चाद्भागस्तद्वत्, "उष्ट्रे क्रमेलकमयमहाङ्गाः करभ " इत्यमरः । विषमा-विसदृशी, अव्यवस्थिता विचित्रा गहना कष्टा चेत्यर्थः । करभपृष्ठपक्षे उन्नतानतेत्यर्थः । दृष्टा - श्रुताऽनुभूता चेत्यर्थः । अत एव तत्र - कर्मणः सृष्टौ कर्मणि वा, योगिनः - सम्यग्ज्ञानादियोगसम्पन्नस्य मुनेः, का- किम्प्रकारा, रतिः - प्रीतिः, काक्वा न कापि प्रीतिरित्यर्थः । उपलक्षणत्वाद- श्रीतिरपि न, अपि तु समभाव एव । कर्म वा नाऽऽराघनीयं फले
9
"