________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
-५२२
- स्तदधीनं दुःखिनः सुखित्वमाह - जातिचातुर्यहीनोऽपि कर्मण्यभ्युदयावहे । क्षणाद्रङ्कोऽपि राजा स्याच्छत्रच्छन्नदिगन्तरः ॥ ३ ॥
जातीत्यादि । अभ्युदयावहे - अभ्युदयो लौकिकसमृद्धिरिष्टविधावनुकूल सामग्री साकल्यं च तमावहति करोति फलति वा तत्तादृशम्, तस्मिन्, अभ्युदयकारक इत्यर्थः । कर्मणि - कर्मपदवाच्ये ज्ञानावरणीयादौ शुभाशुभफलविपाकिनि । निमित्तसप्तमी, तन्निमित्तमित्यर्थः । अभ्युदय कारक कर्मनिमित्तमिति मिलितार्थः । जातिचातुर्यहीनोऽपि - जातिर्नृपत्वयोग्य क्षत्रियादिजातिः, सा च, चातुर्य राजनीत्यादिनैपुण्यं च । एतद्वयं राजत्वाऽनुकूलम् । ताभ्यां हीनः शून्यः, नीच जाति मन्दश्च सन्नपीत्यर्थः । अपिना जातिचातुर्यसमग्रस्य तु कथैव केति सूच्यते । ननु जातिचातुर्यहीन - स्यापि द्रविणादिप्राचुर्याद्राजत्वं सम्भाव्यत इत्यत आह-रङ्कः- दरिद्रोऽपि, अपिः समुच्चये । रङ्कश्चेत्यर्थः । क्षणात् - अत्यल्पेन - कालेन, छत्रच्छन्नदिगन्तरः - छत्रं राजचिह्नं श्वेतच्छत्रं तेन च्छन्नान्यावृतानि दिगन्तराणि दिग्विभागा येन स तादृशः, दिगन्तव्यापि- राज्यसूचकराज चिह्नश्वेतच्छत्र विराजित इत्यर्थः । सार्वभौमश्चक्र- वर्त्तीति यावत् । राजा - प्रभुः स्यात् भवेत् । अभ्युदयावह कर्मव-शानीचो मन्दो रङ्काश्चाऽपि चक्रवर्त्ती स्यात् । दृष्टान्तश्वाऽत्र नन्दादिः प्रसिद्धः । यदि हि स्वकृतं सुखं स्यात्कथङ्कारं नाम नीचमन्ददरिद्राणां राजत्वम्, तेषां राजत्वसाधकसामग्र्याः स्वप्नेऽप्य