SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे कर्मविपाकचिन्तनाऽष्टकम् २२१. येषामित्यादि । येषाम्-यादृशानामतुलधनैश्वर्यप्रतापादिसम्पनानां भूपानाम् , तस्कृतत्वात्तत्सम्बन्धिनेत्यर्थः । भ्रूभङ्गमात्रेणब्रुवौ नेत्रयोरूर्वे रोमपद्धत्यो तयोर्भङ्गः कोपात्कौटिस्यम् , भृकुटिरित्यर्थः । तदेव तन्मात्रं तेन, कोपात्पर्वतादिभङ्गसूचकभृकुटिमात्रप्रयासेनेत्यर्थः । पर्वताः-गिरयस्तादृशदृढसारा अन्ये पुरुषादयश्च, अपिनाऽल्पसारस्य तु कथैव केति सूच्यते । भज्यन्ते-चूर्ण्यन्ते । एतेन तादृशभूपानामतुलबलैश्वर्यप्रतापादिः सूच्यते । कथमन्यथा तावता व्यापारेणाऽपि तादृशदुष्करकार्यसिद्धिरिति बोध्यम् । ताशा हि भूपाः कोपाद् यस्मै भ्रुकुटिमारचयन्ति, सद्य एव तेषामाज्ञावशंवदास्तं वलिनमपि सम्भूय स्वयं च निगृहन्तीति लोके बहुशो दृष्टमिति भावः । ये बलिनोऽपि निग्रहे समर्था इति सारार्थः । अहो !-हन्त ! महान् विस्मयः खेदश्च, यत्-तैः-भ्रूभङ्गमात्रेण पर्वतभनसमथै रेव, भूपैः-महीपतिभिः, कर्मवैषम्ये-कर्मणो वैषम्यं विषमविपाकता, विपरीतफलविपाकस्य कर्मण उदय इत्यर्थः । तस्मिन् सति, भिक्षा--प्रासमात्रकम् , याचिताऽल्यान्नादिकमित्यर्थः । “भिक्षा स्याद् ग्रासमात्रकमि" ति हैमः । अपिनाऽधिकस्य तु कथैव केति सूच्यते । न-नैव, आप्यते-लभ्यते । तस्मात्सुखैश्वर्यादिकं कर्मविपाकाधीनामचिरस्थायि च । यदि हि तत्स्वाधीनं स्यात्कथं तादृशभूपानां भिक्षाऽपि दुर्लभा स्यात् । तस्मात्सुष्ठूक्तं 'मुखं प्राप्य च विस्मितो न स्यादि' ति, 'कर्मविपाकस्य परवशं जगति' ति चेति सुखेऽपि स्वास्थ्यमेवाऽऽश्रयेदिति भावः ।। २ । सम्प्रति शिष्यं प्रबोधयितुं कर्मविपाकस्य वैचित्र्यं प्रदर्शयं..
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy