________________
भद्रङ्करोदयाख्यव्याख्याविभूषिते
सम्यग्ज्ञानेनाऽवधारयन् सन् , दुःखम्-अनिष्ट सम्प्रयोगेष्टवियोगजनितमनभिमताऽनुभवविषयं दुःखपदवाच्यं तद्धेतुं परीषहोपसर्गादिकं च, प्राप्य-लब्ध्वा, अनुभवन्नित्यर्थः । दीन:-कृपणः, * अहमत्यन्तं दुर्गतः, ममैव सर्वोपाधयः कुत' इत्येवंशोकाकुल इत्यर्थः । सुखम् -अनिष्टविप्रयोगेष्ट सम्प्रयोगजनितमभिमतानुभवविषयं तद्धेतुं च, प्राप्य-लब्ध्वा, अनुभवन्नित्यर्थः । विस्मित:अहं घन्यो यन्ममेदृशं सुखमित्येवं हर्षमदाकुलः, चः समुच्चये । न-नैव, स्यात्-भवेत् । सुखदुःखयोः साम्यात्मकं स्वास्थ्यमाश्रये. दित्यर्थः । यद्धि न स्वकृतं यत्र स्वस्य प्रभुत्वं वा न, तत्र दैन्य विस्मयाभ्यामलम् , तस्य त्यागोपादानयोरसम्भवात्परकृतस्याऽचिरस्थायित्वाञ्चेति भावः । सुखदुःखे कर्माधीने नाऽन्यथा भवितुमर्हतो न च सर्वदा तिष्ठत आगन्तुकत्वादित्यतस्तत्र साम्यात्मकं स्वास्थ्यमाश्रयेदिति तात्पर्यम् । अथ च यो मुनिर्भवति स जगत्कर्मविपा. काऽधीनमिति जानाति, ततो दुःखे दैन्यं सुखे विस्मयं च स न गच्छति । किन्तु न स्वाधीनमेतदिति परकृतत्वादचिरस्थायीति च तयोः समतामाश्रित्य स्वस्थ एव भवति, सुखदुःखयो दैन्यविस्मय. योरज्ञान विजृम्भितत्वादित्यपि हृदयम् । ॥ १ ॥
ननु कर्मविपाकस्य परवशं जगदिति कुत इति शिष्यजिज्ञासां समाधिस्सुराह
येषां भ्रूभङ्गमात्रेण भज्यन्ते पर्वता अपि । तैरहो ! कर्मवैषम्ये भूपैभिक्षाऽपि नाऽऽप्यते ॥ २ ॥