SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे कर्मविपाकचिन्तनाऽष्टकम् २१९. साघनीयो यथाऽन्तरेव सर्वाः समृद्धयोऽवभासेरन्निति भावः ॥ ८ ॥ इति ज्ञानसारे प्रख्यातव्याख्यातृकविरत्नपन्यास प्रवर श्रीयशोभद्रविजयजीगणिवर शिष्यपन्यास श्री शुभङ्कर विजयगणि विरनितायां भद्रकरोदयाख्यायां व्याख्यायां सर्वसमृद्धयष्टकं नामविंशतितमाऽष्टकम् ॥ २० ॥ ॥ कर्मविपाकचिन्तनाऽष्टकम् ॥ यदुक्तं " सिद्धयोगस्ये ' ति, तत्र मुनिनाऽपि लोकिक सुखदुःखयोर स्वस्थेन न कोऽपि योगः साध्यः । स्वास्थ्ये च कर्म विपाकचिन्तनं सहकारीति शिष्यप्रबोधार्थ कर्मविपाक चिन्तनाऽष्टकं विवक्षुरादौ स्वास्थ्यमेवोपदिशन्नाह ― दुःखं प्राप्य न दीनः स्यात्सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य जानन् परवशं जगत् 11 2 11 दुःखमित्यादि । मुनिः - सम्यक्त्वसम्पन्नः साधुः, जगत्तात्स्थ्यात्ताच्छब्द्यमिति जगज्जन्तुजातम्, कर्मविपाकस्यकर्मणां ज्ञानावरणीय. दीनां शुभाशुभात्मकानां कर्मपदवाच्यानां तज्जन्यत्वात्तत्सम्बन्धीत्यर्थः । यो विपाकः परिणामः, फलजनकत्वेनोदय इत्यर्थः । तस्य, परवशम् - पराधीनम्, यादृशफलजनककर्मोदयस्ता दृशमेव फलं सुखं वा दुःखं वा न तु स्वाधीनम्, अन्यथा सर्वः सुख्येव भवेदिति भावः । तन्त्राऽऽयत्तवशाऽधीनच्छन्दवन्तः परात्परे " इति हैमः । जानन् - श्रुताद्यभ्यासलब्ध 66
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy