________________
२१८
भद्रङ्करोदयाख्यव्याख्याविभूषिते अलौकिकाऽसाधारणाऽतिशयसमग्रत्वादर्हतः समृद्धिः सर्वो. त्कृष्टा सर्वाधिका च । तत्त्वदृशः साऽपि न दुर्लभेत्युपसंहरनाह
रत्नस्त्रिभिः पवित्रा या स्रोतोभिरिव जाह्नवी । सिद्धयोगस्य साऽप्य हत्पदवी न दवीयसी ॥८॥
इति महामहोपाध्यायश्रीमद्यशोविजयोपाध्यायविरचिते ज्ञानसारे सर्वसमृद्ध्यष्टकं नाम विंशतितमाऽष्टकम् ॥ २० ॥
रस्नैरित्यादि । या-यादृशी प्रसिद्धा, अर्हत्पदवी-अर्हतो जिनेश्वरस्य पदवी स्थिति र्मयादा पदं वा, आईन्त्यमित्यर्थः । सहज देवकृतमहापातिहार्याऽतिशयसमग्रतेति यावत् । त्रिभिःत्रिसङ्ख्यैः, रत्नैः-रत्नवदनय॑त्वाद्दुरापत्वादुत्तमत्त्वाच्च रत्नरूपैः सम्यग्दर्शनज्ञानचारित्रै रत्नत्रयैः, स्रोतोभिः-स्वयंप्रवाहैः, ' स्रोतोऽम्बुसरणं स्वत' इत्यमरः । त्रिभिरित्युग्माबलात्सम्बध्यते । जाह्नवी-गङ्गेव, गङ्गाया भूर्भुवःस्वस्त्रयः प्रवाहा इति पौराणिका इति भावः । पवित्रा-निर्मला, पूजनीया, सकलकर्ममलाऽपहरणेन पवित्रीकरणात्पवित्रा च । सा-तादृश्यहत्पदवी, अपिनाऽन्यस्य तु कथैव केति सूच्यते । सिद्धयोगस्य-सिद्ध आराधनया निष्पन्नो योगः समताख्यश्चतुर्थो योगो ज्ञानक्रियाभक्तिध्यानादियोगो वा यस्य स तादृशस्तस्य, योगिनस्तत्वदृश इत्यर्थः । न-नैव, दवीयसीअतिदूरभवा, अपि त्वनतिदूर एवेत्यर्थः । योगिनोऽहत्त्वमपि न दुर्लभमिति निष्कर्षः । तस्मात्तत्वदृष्टि समाश्रयेण कृत्वा योगोऽवश्यं