SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सर्वसमृद्धष्टकम् या सृष्टिरित्यादि । ब्रह्मणः - पौराणिक प्रसिद्धस्य चतुर्मुखस्य विधातुः, तत्कृतत्वात्तत्सम्बन्धिनीत्यर्थः । बाह्यापेक्षाऽवलम्बिनीबाह्यस्य बहिर्भूतस्य पञ्चमहाभूतादे र्याsपेक्षा स्त्रविधेये निमित्तभावादाकाङ्क्षा तदविनाभावितयाऽऽवश्यकसन्निधिस्तदवलम्बिनी तदाश्रया, बाह्यभूताद्यधीनात्मलाभेत्यर्थः । या यत्प्रकारा वर्णिता, सृष्टिः- जगत्सर्गः, यत्तदो र्नित्यसम्बन्धात्सेति लभ्यते । बाह्याबहिर्भवैव, अनात्मधर्मत्वादनात्मनीनत्वाद्विनश्वरत्वादनिष्टानुबन्धित्वाद्धेयेत्यर्थः । बाह्यचाण्डालादिवदस्पृश्यत्वान्निकृष्टतमेति यावत् | ब्रह्मणेयं सृष्टिः कृतेति पौराणिका इति बोध्यम् । मुनेः- तत्त्वदृशः, तत्कृतत्वात्तत्सम्बन्धिनीत्यर्थः । परानपेक्षा - परस्याऽऽत्मभिन्नस्य भूतादेरन पक्षाऽनिमित्तत्वेनानाश्रया, गुणसृष्टिः- गुणानां दर्शनज्ञानादीनामुपार्जनात्मकं निर्माणम्, अन्त:- अन्तर्भवा, आत्मधर्मत्वा-दात्मनीनत्वादविनश्वरत्वाच्छुभानुबन्धित्वादुपादेयेत्यर्थः । अवश्योपादेयत्वादत्युत्कृष्टेति यावत् । यद्वा बाह्य बहिर्भवा या ब्रह्मणः सृष्टिः सा बाह्यापेक्षावलम्बिनी, अन्त र्या मुने गुणसृष्टिः सा परानपेक्षेत्यन्वयः । अत एव ततः - बाह्यापेक्षब्रह्मसृष्टितः, अधिकाउत्कृष्टा । सापेक्षतो हि निरपेक्षस्योत्कर्षः सर्वलोकप्रसिद्धः । यद्वाततः - तस्मात्परानपेक्षत्वाद्धेतोः, अधिका-मुने र्गुण सृष्टिरुत्कृष्टेत्यर्थः ब्रह्मणो विभूतिः सृष्टिः पौराणिक प्रसिद्धा, मुनेश्वाऽतिशयिता सृष्टिरिति मुनि ब्रह्मणा समविभूतिरेव न, किन्तु तदधिकविभूतिरिति तत्त्वदृष्टेर्महन्माहात्म्यमिति भावः । अत्रोपमानस्योपमेयाधिक्यवर्णना· ह्यतिरेकाऽलङ्कारः ॥ ७ ॥ 9 २१७
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy