________________
भद्र करोटयाख्यव्याख्याविभूषिते
ज्ञानेत्यादि । ज्ञानदर्शनचन्द्रार्कनेत्रस्य-ज्ञानं वस्तुनो विशेष. धर्मग्राहिसम्यग्ज्ञानं दर्शनं तत्त्वार्थश्रद्धानं वस्तुसामान्य स्वभावपरिच्छेदिबोधो वा ते एव वस्तुप्रकाशकत्वाकर्मक्षयद्वारा भवतापाऽपहारकत्वान्मुक्तिसुखात्मकाऽऽह्लादप्रदत्वाद्विलक्षणरुचिमयत्वातत्त्वालोकपटुत्वाच्च यथाक्रमं चन्द्रार्को सोमसूर्यो, ते नेत्रे वस्तुप्रत्यक्षसाधनभूते बहिदशावन्तदृशौ च यस्य स तादृशस्तस्य, ज्ञानदर्शनद्वयात्मकचन्द्रसूर्यरूपनेत्रद्वयसमन्वितस्येत्यर्थः । नरक. च्छिदः-ज्ञानादिना सर्वकर्मक्षयान्नरकगतिप्रयोजककर्मनाशान्नरकनाशान्नरकं दुर्गतिं छिनत्तीति स तादृशस्तस्य, कर्मक्षयानरकगति. रहितस्येत्यर्थः । नरकासुरनाशकस्य च । तथा, सुखसागरमग्नस्यसुखमात्मसुखं तदेव शाश्वताऽखण्डाऽनन्तत्वात्सागरः क्षीरोदधिस्तत्र मग्नस्तदेकानुभवलीनः सुप्तश्च, तस्य तादृशस्य, योगिन:तत्त्वदृशः, हरे-हरिम पेक्ष्येति यब्लोपे पञ्चमी । बुद्रिकृताऽपादाने वा पञ्चमीबोध्या । किम्-किंनाम वस्तु, न्यूनम् -अल्पम् , काक्वा न किमपि न्यूनम पितु तुल्यमेवेत्यर्थः । पौराणिका हि विष्णु. नरकासुरहन्ता क्षीरसागरशायी, तथा तस्य चन्द्राकौं नेत्रे इति विष्णुविभूतिं वर्णयन्ति, तदुक्तरीत्याऽविकलं मुनेरपीति तत्वदृग्वि. ष्णुसमृद्धिमानिति भावः । रूपक श्लेषाऽनुपणितोपमाऽलङ्कारः ।।६।।
अथ तत्त्वदृशो ब्रह्म समृद्धिमाहया सृष्टि ब्रह्मणो बाह्या बाह्याऽपेक्षावलम्बिनी । मुनेः परानपेक्षाऽन्तर्गुणसृष्टिस्ततोऽधिका ॥७॥