________________
ज्ञानसारे सर्वसमृद्ध्यष्टकम्
२१५
मोहस्याssत्मानमधिकृत्य प्रवृत्ता शुद्धा क्रिया । यदुक्तम् - " गतमोहाऽधिकाराणामात्मानमधिकृत्य या । प्रवर्त्तते क्रिया शुद्धा वदध्यात्मं जगुर्जिनाः" इति । तदेव शुद्धत्वाद् दुरधिगम्यत्वान्मुनिशिवैकाऽधिष्ठितत्वाच्च कैलासस्तदाख्योऽद्रिस्तत्र, तद्विषये इत्यर्थः । विवेकवृषभ स्थितः - विवेकश्चेतनाऽचेतन भेदमा हिमतिः, यदुक्तम्" कर्मजीवञ्च संश्लिष्टं सर्वदा क्षीरनीरवत् । विभिन्नीकुरुते योऽसौ मुनिहंसो विवेकवान् " इति । स एव विशुद्धत्वादिष्ट परमपदादिस्थानप्रापकत्वाच्च वृषभो नन्द्यारूयो बलीवर्दः ख्यातः शिववाहनस्तत्र स्थितस्तमधिष्ठितः, शुद्वविवेकवानित्यर्थः । तथा, विरतिज्ञप्तिगङ्गागौरी युतः - विरतिः सर्वसावद्ययोगनिवृत्तिरूपं चारित्रम्, ज्ञप्तिः सम्यग्ज्ञानम्, ते एव मुख्यत्वान्मूर्धन्यत्वात्स कलकर्ममलापहारकत्वादात्माऽभेदान्मुक्ति सुखात्म कर तिप्रदत्वाच्च यथाक्रमं गङ्गागौर्यो मन्दाकिनी पार्वत्यौ ताभ्यां युतः समन्वितः मुनिः- तत्वहक् साधुः, शित्र:- महादेवस्तीर्थान्तरप्रसिद्धस्त्रिलोचनो देवविशेषस्तद्वपः शोभते - विराजते । पौराणिका हि शिवं कैलासे वृषवाहनं मूर्धनि गङ्गाऽर्धनारीनटेश्वरूपेण गौर्या च विराजितं वर्णयन्ति, मुनिरप्युक्तप्रकारेण तथेति मुनिः शिवसमृद्धिमानिति भावः ॥ रूपकाऽलङ्कारः ॥ ५ ॥
1
अथ तत्त्वदृशो विष्णुपमृद्धिमाह -
ज्ञानदर्शन चन्द्रार्कनेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य किं न्यूनं योगिनो हरेः ॥ ६ ॥
·