________________
२१४
भद्रङ्करोदयाख्यव्याख्याविभूषिते
प्राप्तिश्चेति ब्रह्म सुधाकुण्डमिति भावः । “ पिठरं स्थाल्युखा कुण्डमि "त्यमरः । तस्य या निष्ठा दानवेभ्यो रागादिभ्यस्तदुपहतं मा भूदित्येवं निरुपद्रवा स्थिति स्तदधिष्ठायकः समर्थोऽधिकारी,. बलवान् पालक इत्यर्थः। निजात्मवीर्येण निरतीचारब्रह्मचर्यात्मकसुधाकुण्डपालकपुङ्गव इति समुदायार्थः । तादृशः सन्निति बोध्यम् । प्रयत्नतः-सश्रमम् , बलवता प्रयासेनेत्यर्थः । क्षमाम्-सत्यपि दण्डसामयेऽपराधसहनात्मिकां क्षान्ति पृथिवीं च, रक्षन्-धारयन् । शिरम्युत्तोलयंश्च । मुनिः-सम्यक्त्वसम्पन्नस्तत्त्वदृष्टिः साधुः, नाग. लोकेशवद-नागलोकः पातालं तस्येशः स्वामी शेषनागस्तद्वत्तेन तुल्यम् , “ अधोभुवनपातालं बलिसा रसातलम् । नागलोक " इत्यमरः । भाति-विराजते । शेषनागो हि सुधाकुण्डं दानवेभ्यो रक्षति पृथिवीं च शिरस्युत्तोल्य धारयतीति पौराणिकाः । तदेषाऽस्य महती विभूतिर साधारणत्वादन्यैरसाध्यत्वाच्च । मुनिरपि च ब्रह्मात्मकं सुधाकुण्डं रागादिभ्यो रक्षति क्षमां च धारयतीति द्वयोः सादृश्यम् । एवञ्च नागलोकेशवत्समृद्धिर्भुनेरिति भावः । अत्र. रूपक श्लेषाऽनुप्राणितोपमाऽलङ्कारः ॥ ४ ॥ ___लोकेऽन्यैः शिवविष्णुब्रह्माणः सर्वाधिक समृद्धिमन्तो मन्यन्ते, अतस्तत्समृद्धिरपि तत्त्वदृशः सुलभेति प्रतिपादयन्नादौ शिवसमृद्धिमेवाऽऽह
मुनिरध्यात्मकैलासे विवेकवृषभस्थितः । शोभते विरतिज्ञप्तिगङ्गागौरीयुतः शिवः ॥ ५॥ मुनिरित्यादि । अध्यात्मकैलासे-आत्मनीत्यध्यात्म गत