SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे सर्वसमृद्धयऽष्टकम् २१३ कत्वं धर्माधारत्वं चेति क्रिया चर्मरत्नम् । छत्ररत्नं च समापतन्त्या वृष्टे रक्षति, ज्ञानं च समापततो मिथ्यात्वाद्रक्षति, तज्ज्ञानं छत्ररत्नमिति तात्पर्यम् । तादृशगुणविशिष्टः, मुनिः-तत्वदृष्टिः, चक्र वर्ती-सार्वभौमः सम्राट् , किं न-किं नास्ति, कामाऽपि ववश्य. मेवाऽस्ति, चक्रिसमृद्धिभूतरत्नसद्भावाऽन्यथाऽनुगपत्तेरितिभावः । उक्तरीत्या चक्रिसमृद्धिमान् मुनिरिति सारः। परम्परितरूपकालकारः ॥ ३ ॥ अथ नागराजसमृद्धिमाह-- नवब्रह्मसुधाकुण्डनिष्ठाऽधिष्ठायको मुनिः। नागलोकेशवद्भाति क्षमां रक्षन् प्रयत्नतः ॥ ४ ॥ नवब्रह्मेत्यादि । नवब्रह्मसुधाकुण्डनिष्ठाऽधिष्ठायक:-नवमतीचारपरिहीणत्वादतिविशुद्धत्वादितरविलक्षणत्वान्नवीनमिवाऽपूर्वम् , वसतिकथानिषद्येन्द्रियनिरीक्षण कुड्यान्तरस्थितिपूर्वक्रीडितस्मरणप्रणीचाहाराऽतिमात्राहारविभवावर्जनात्मकनवसङ्ख्याकगुप्तिसाध्यत्वान्नव. सपा कं च, नवधेयर्थः । तीर्थान्तरप्रसिद्धस्पर्शनभाषणादिविरमणात्मकत्वाच्च नवभेदं च, यद्ब्रह्म ब्रह्मचर्य मैथुनविरमणात्मकम् , उपलक्षणत्वाचारित्रमात्रं च, तदेव सर्वरोगोपशमनिरत्वाऽमरत्वाऽलो कि कतृप्तिप्रदत्वात्सुधाया अमृतस्य तत्संभृतत्वात्तत्सम्बन्धि यत्कुण्डं पात्रं तद्रूपम् । यथा हि सुधाकुण्डादादाय सुधायाः पानात्सर्वरोगोपशमादि तथा ब्रह्माराधनेन कर्मक्षयात्सम्यग्ज्ञानप्राप्तिशूर्वकं जन्ममरणादिसर्वविधदुःखनाशः शाश्वताऽखण्डमोक्षसुख
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy