________________
२१२
भद्रङ्करोदयाख्यव्याख्याविभूषिते
क्षयाऽतिमहानुत्कर्षस्तथापि बोधार्थ न्यूनेन कृत्वाऽप्यधिकस्य निरूपणमिति सन्तोष्टव्यम् । अत्र रूपकाऽनुप्राणिता निदर्शनाSलङ्कारः ॥ २॥
अथ तत्वदृशश्चक्रवर्तिसमृद्धिमाहविस्तारितक्रियाज्ञानचमच्छत्रो निवारयन् । मोहम्लेच्छमहावृष्टिं चक्रवर्ती न किं मुनिः ॥३॥
विस्तारितेत्यादि । विस्तारितक्रियाज्ञानचर्मच्छत्र:-विस्तारिते, चर्मच्छत्रपक्षे विकासिते विस्फारित वा, क्रियाज्ञानपक्षे चाऽप्रमत्ततया साफल्येनाऽनुष्ठितं विशुद्धं समस्तवस्तुविषयं चेत्यर्थः । क्रिया चारित्रं च ज्ञानं सम्यग्ज्ञानं च ते रत्ने, तद्रूपे इत्यर्थः । चर्म चर्मरत्नं च छत्रं छत्ररत्नं च ते येन स तादृशः सन्नित्यर्थः । विस्तारणप्रयोजनमाह-निवारयन्नित्यादिना। मोहम्लेच्छमहावृष्टिम्मोहो मोहनीयकर्मैव भक्ष्याभक्ष्यकार्याकार्यहेयोपादेयविवेकवैकल्यसद्भावात्सम्यक्त्ववतः सतः परिपन्थित्वाच्च म्लेच्छो यवनः किरातो बा तत्प्रयोजिता या महावृष्टि महान् नैरन्तर्येण चिरं च रागद्वेषाद्या. विर्भावात्मको धारासम्पातः, ताम्, निवारयन्-निष्फलं कुर्वन् । चक्रिणे क्रुद्धा हि म्लेच्छा देवानाराध्य महावृष्टि कारयामासुः । चक्री ब चर्मरत्नं छत्ररत्नं च विस्तार्य स्वस्य सैन्यस्य च बाधाऽभावात्तां निष्फलां चकारेति चक्रिचरितम् । तथा क्रिय या ज्ञानेन च मोह.
बनितरागद्वेषादयो जीयन्ते । चर्मरत्नस्य तत्रोप्तबीजानां झटिति ... परिणम यितृत्वं सर्वसैन्याधारत्वं च, क्रियाया अपि सर्वगुणवर्ध