________________
ज्ञानसारे सर्वसमृद्धयऽष्टकम्
२११
क्यम् , यदुक्तम्-" ध्याता ध्येयं तथा ध्यानं त्रयमेकात्मतां गतम् । इति ते योगमाहात्म्यं कथं श्रद्धीयतां परि 'ति, तद्रूपमित्यर्थः । नन्दनम्-तदाख्यो देवेन्द्रारामः, यथा देवेन्द्रो नन्दने रमते तथा समाधौ मुनिरिति मुनेः स एव तत् । धैर्यम्-उपसर्गादौ सत्यपि न ग्लान्याद्यनुभवोऽप्रियसहनं स्वव्यवसाये समुत्साहश्चेत्येतत्त्रयात्मकं धीरत्वम् , तद्गमित्यर्थः । दम्भोलि:-वज्रम् , यथा देवेन्द्रो बज्रग प्रतिपक्षि गो जयति तथा मुनि धैर्येणोपतापिन उपसर्गादीनिति धैर्य वज्रमिन्याशयः । समता-साम्यम्, समचित्तवृत्तितेत्यर्थः । प्रियाऽऽप्तो हर्षस्याऽप्रियाऽऽप्तावुद्वेगस्य चाऽभावः सर्वपाणिषु सम. दृष्टिश्च, शची-इन्द्रपत्नीन्द्राणी, यथा हीन्द्राणीन्द्रस्य रतिपदा तथा समता मुनेरात्मरतिपदेति समता शची। ज्ञानम्-सम्यग्ज्ञानम्, यथावस्थितवस्तुतत्वज्ञानमिति यावत् । तद्रूपमित्यर्थः । महाविमानम्-महदितराऽपेक्षया विशालं गुणाढ्यं च विमानं व्योमयानम् । " व्योमयानं विमानोऽस्त्री " त्यमरः। यथा देवेन्द्रस्य विमानं सर्वमहत्सर्वोत्कृष्टं सर्वगमप्रतिहतं च तथा मुने निं बहुविषयत्वात्सर्वमहद्यथावस्थितवस्तुविषयत्वात्सर्वोत्कृष्टं सर्वद्रव्यपर्यायविषयत्वात्सर्वगं पारमार्थिकत्वादप्रतिहतं चेति ज्ञानं महाविमानम् । चः-समुच्चये । इयम्-वर्ण्य माना समाध्याद्यात्मिका, मुनेः-तत्त्वदृशः, एतेन मुनेरेवेशी समृद्धिर्नाऽन्यस्येति सूच्यते। वासवश्री:वासवस्येन्द्रस्य श्रीः समृद्धिरिव श्रीः । वासवस्य हि नन्दनादिकमेव समृद्धिः, मुनेश्चाऽपि समाध्याद्यात्मकनन्दनादिसमृद्धिरिति मुनेरियं -समृद्धि सवश्रीरिति तात्पर्यम् । यद्यपि समाध्यादीनां नन्दनायपे