________________
२१०
भद्रङ्करोदयाख्यव्याख्याविभूषिते स्तेषु, मुद्रितेषु-निमीलितेषु, निरुद्धेषु सस्वित्यर्थः । तन्निरोधश्च तत्त्वदृष्टिसमाश्रयेण कृत्वा, द्वयोमिथो विरोधादेकतराऽऽश्रयणस्याऽन्यतरपरिहाराऽविनाभाविस्वात्तदुभयभिन्नदृष्टेरभावाचेति बोध्यम् । एवञ्च बाह्यदृष्टिनिमीलनपूर्वकतत्त्वदृष्टयुन्मीलने सतीति निष्कर्षः । महात्मन:-तत्त्वदृष्टि सद्भावेन प्राप्ताऽऽत्मप्रकर्षस्य पुरुषश्रेष्ठस्य, एतेन बहिदृष्टिनिमीलनमेव माहात्म्यमिति सूच्यते । अन्त:-आत्मन्येव, नतु बहिरित्येवकारार्थः । आत्मधर्मरूपेगेति बोध्यम् । एवञ्च तस्य न ग्रामारामादिबहिःसमृद्धिसङ्ग्रहक्लेशोऽपीते महत्सौकर्यम् , तत्त्वदृष्टीनां बहिःसमृद्धेस्तत्त्वाऽभावाच । यदुक्तम् " तत्राऽश्वेभवनात् कोऽपि भेदस्तत्वदृशस्तु ने” बोध्यम् । स्फुटा:-अतिपकटं लब्धा. स्मलाभाः, स्फुटमनुभूयमाना इत्यर्थः । सर्वा:-सर्वप्रकारा इन्द्रादिसम्बन्धिन्यो न तु काश्चिदेव, समृद्धयः-सम्पत्तयः, ऐश्वर्यमित्यर्थः । अवमासन्ते-अनुभवपथमायान्ति, स्वयमनुभूयमानतां यान्तीत्यर्थः। बहिर्दृष्टिमुद्रणे आत्मगुणप्रकर्ष एव सर्वसमृद्धिः, तत एव हि निरतिशयस्वभावसुखसाक्षात्कार इत्यस्मस्य हानि बहोश्च लाभ इति न तत्त्वदृष्टिरुपालम्भमहतीति तात्पर्यम् ॥ १॥
यदुक्तं ' सर्वाः समृद्धय' इति, तच्छिष्यप्रबोधाय विशेषतो विवुवूर्षुरादाविन्द्रसमृद्धिमेव विवृणोति
समाधि नन्दनं धैर्य दम्भोलिः समता शची । ज्ञानं महाविमानं च वासवश्रीरियं मुनेः ॥२॥ समाधिरित्यादि । समाधिः-योगः, स च ध्यातृध्येयध्यानै